________________
८० ]
[ वायूष्मादेः तथाऽप्युक्तप्रतीतेभ्रमत्वकल्पनाया एव विनिगमकत्वात् । उद्भूतरूपस्य हेतुत्वेऽपि मरेणुस्पार्शनवारणाय द्रव्यस्पार्शनं प्रति उद्भूतस्पर्शस्य हेतुत्वावश्यकताया विनिगमकत्वाच्च । न चैवमृष्मणो भर्जनकपालस्थवढ्यादेश्च स्पाशनापत्तिः स्पार्शनं प्रति रूपस्याऽहेतुत्वादिति वाच्यम् , इष्टत्वात् । न च वायूष्मणोस्त्वाचाभ्युपगमे वृत्तिसंख्यादेरपि त्वाचापत्तिरिति वाच्यम् , इष्टत्वादिति मीमांसकाः।
तत्र प्राश्चो नैयायिकाः, सामान्यतो मानसेतरद्रव्यलौकिकप्रत्यक्षत्वाद्यवच्छेदेनैव द्रव्यलौकिकचाक्षुषं प्रत्युद्भू तरूपस्य हेतुत्वान्न वायोः स्पार्शनसाक्षात्कारसंभवः, सामान्यसामग्या सहिताया एव विशेषसामग्र्याः कार्योपधायकत्वात् । न च तादृशकार्यकारणभावे मानाभाव इति वाच्यम् , वाम्बादेः पिशाचादेगत्मनश्च लौकिकचाक्षुषवारणाय द्रव्यलौकिकचाक्षुषं प्रत्युद्भूतरूपस्य हेतुत्वावश्यकतया तस्यैव सामान्यतो मानसेतरद्रव्यलौकिकप्रत्यक्षत्वस्य कार्यतावच्छेदकत्वात् , असति बाधके सामान्यधर्मावच्छेदेनैव कार्यतादिग्राहकप्रमाणप्रवृत्तेरित्याहुः । तदसत् । मानसेतरद्रव्यप्रत्यक्षत्वस्याऽऽत्मेतरद्रव्यप्रत्यक्षत्वमादाय विनिगमनाविरहग्रस्ततया द्रव्यचाक्षुषत्वमपेक्ष्य शरीरगुरुतया च द्रव्यचाक्षुषत्वस्यैवोद्भूत(रूप)कार्यतावच्छेदकत्वौचित्यात् । बाधकसत्त्वे सामान्यस्याऽकिश्चित्करत्वात् ।