________________
महोपाध्याय-न्यायाचार्य
श्रीमद्यशोविजयगणिप्रणीतम् वायूष्मादेः प्रत्यक्षाप्रत्यक्षत्वविवादरहस्यम् ।
।ऐं नमः॥ वायोश्चाक्षुषसाक्षात्कारवत् स्पार्शनोऽपि न साक्षात्कार इति नैयायिकसिद्धान्तो न श्रद्धेयः, वायोरस्पार्शनत्वे शरीग्वायुसंयोगानन्तरं 'शीतो वायुर्वाती' त्यादिवायुमुख्य विशेष्यकलौकिकस्पार्शनानुपपत्तेः । न चासौ न स्पार्शनोऽपि तु मानस एवेति वाच्यम् , 'वायोः शीतस्पर्श स्पृशामि, ‘वातं स्पृशामी'त्याद्यनुव्यवसायानुपपत्तेः । न चासौ भ्रमो बाधकाभावात् । न च वायूनां विषयविधया तत्तद्वयक्तित्वेन स्वविषयकलौकिकप्रत्यक्षं प्रति कारणत्वकल्पनागौरवमेव बाधकमिति वाच्यम् , विषयस्य तत्तद्यक्तित्वेन कारणत्वे मानाभावात् , विषयस्य तत्तद्वयक्तित्वेन कारणतावृद्धिभियाऽतीन्द्रियत्वाभ्युपगमे घटादेपि तथात्वापत्तेः ।
___ न चोद्भूतरूपस्य द्रव्यचाक्षुषवत् द्रव्यस्पार्शनेऽपि हेतुत्वात् कारणाभाव एव बाधक इति वाच्यम्, मानाभावात् । प्रमायाः स्पार्शनवारणाय उद्भूतस्पर्शस्य द्रव्यत्वस्पार्शनहेतुत्वावश्यकतया तत एव पिशाचादेगनादेश्वाऽस्पार्शनत्वोपपत्तेः । न च 'प्रभा हि तेजसो रूपमिति नये विनिगमनाविरहादेवोद्भूतरूपस्यापि द्रव्यस्पार्शनहेतुत्वमिति वाच्यम् ,