________________
( विषयतवादः
पत्तित्वाख्यजातिविशेषाभावान्न तदनंतर मापादयामी' त्यनुव्यवसाय: । आपत्तित्वजातौ मानाभाव' इति तु न वाच्यम्, ‘आपादयामी'त्यनुव्यवसायस्यैव मानत्वाद् । विषयभेदेनानन्तविषयता कल्पनापेक्षया जातिकल्पने लाघवस्यैव विवादभञ्जकत्वात् ।
1
न च भवन्मते वाधबुद्धिप्रतिबध्यतावच्छेदककोटौ तद्विधेयकविजातीयज्ञानभिन्नत्वं निवेश्यं तद्विधेयकान्यत्वनिवेशेऽनुमित्याद्यसंग्रहापत्तेः मम तु तन्निष्ठविलक्षणविषयताकान्यत्वमेव निवेश्यत इति वाच्यम्, इच्छाधीनज्ञाने व्यभि 'चारवारणायोत्तेजकत्वकल्पनापेक्षया लाघवेन जन्यतासंबंधेन बाधवदन्यत्वस्यैव निवेशितत्वा तेनैवापत्तावपि व्यभिचारवारणात्, तदन्यत्वस्यैवानिवेशात् कार्यतावच्छेदकत्वादिलाघनातिरिक्तविषयतासिद्धेः, प्रतिबंधक सहस्रकवलितत्वात् ।
७८ ]
•
एतेनानुमित्यादिसाधारण विलक्षण विषयताया आपच्यादिसाधारण्येन तत्स्थलीयप्रतिबंधकतायां प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्वमापत्य न्यत्वंनिवेशनीयमिति गौरव मित्यपि परास्तमिति कृतं पल्लवितेन ॥ श्रीः ||
॥ समाप्तो विषयतावादः ॥
१- 'वादिति' इति खं० प्रतौ ।