________________
[ ७७
आपाद्यताविचारः] गौरवमिति वाच्यम् , इच्छाया उत्तेजकत्वेऽप्रामाण्यग्रहादिभिः सममिच्छाऽभावस्य विशेषणविशेष्यभावे विनिगमनाविरहेणानुगतत्वादिच्छाया हेतुत्वकल्पनस्यैवोचितत्वादिति चेत् ?
___ मैवम् , आपाद्यत्व'रूपविशेषानभ्युपगमे ज्ञाननिष्ठो वयादिप्रकारकापत्तित्वाभाव आत्मनिष्ठस्तादृशापत्तित्वावच्छिन्नाभावो वा 'वह्निमापादयामी' त्यनुव्यवसायविषयो वाच्यः, न तु वहयादिव्यतिरेकनिर्णयजन्यत्वविशिष्टापत्तित्वाघभावः, तादृशजन्यत्वाद्यनुपस्थितिदशायामपि तादृशप्रतीतेः सर्वानुभवसिद्धत्वात् । तथा च, पूर्वोपदर्शितसमूहालंबनदशायां 'घटमापादयामि, न वह्निमि'त्याद्यनुव्यवसायानुपपत्तिरिति तादृशविषयतास्वीकार आवश्यक इति । एवं च तादृशविषयतानिरूपकत्वमेवापत्तित्वं न तु जातिविशेषो, मानाभावात् । आपन्यन्यज्ञाने तादृशविलक्षणविषयताभावादेवा'ऽऽपादयामी'त्याद्यनुव्यवसायविरहोपपत्तिरिति बोध्यम् । . अत्रेदमवधेयम्-विधेयत्वमेवापत्तिः स्वीक्रियते । तथा चापत्तिनिरूपितविधेयत्वमेवापाद्यत्वम् । 'पर्वतो वह्निमान्, पर्वतो घटवान् स्यादि'त्याद्याकारकापत्तौ घटस्यैव विधेयत्वमुपगम्यते न तु वनेरतो न तादृशापत्त्यनंतरं 'घटमापादयामि, न तु वहिनमि'त्याद्याकारकानुव्यवसायानुपपत्तिः । विधेयताया अनुमित्यादिसाधारण्येऽपि तत्रा
१-'रूपविषयतावि०' इति दे० ।