________________
७६ ]
[ विषयतावादे मान् पर्वतः, पर्वतो घटवान् स्यादि'त्यादिसमूहालंबनानां तादृशबोधदशायामापत्तेरिति वाच्यम् ; जन्यतासंबंधेन वह्नयभाववत्तानिर्णयवदन्यत्वस्यैव तत्र निवेशनीयतया व्यभिचारापत्तेर्वारणसंभवात् । न च जन्यत्वनिवेशनापेक्षया विषयताविशेषनिवेशे लाववात्तसिद्धिरिति वाच्यम् , कार्यतावच्छेदकलाघवेनातिरिक्तविषयतासिद्धौ 'तत्तदापाद्यव्यतिरेकज्ञानजन्यतावच्छेदकतया विषयताविशेषाणां सिद्धिप्रसंगात्।
वस्तुतस्तु बाधाभावजन्यतावच्छेदककोटी जन्यतासंबंधेन बाधवदन्यत्वस्य निवेशनमेवोचितम् । अन्यथा बाधकालीनेच्छाजन्यज्ञाने व्यभिचारवारणायेच्छाया उत्तेजकत्वे गोरवात्। 'मन्मते-आहार्यज्ञानस्यापि बाधजन्यतया तस्य तादृशकार्यतावच्छेदकानाक्रान्ततयैव व्यभिचारसंभवेनेच्छाया उत्ते. जकत्वानभ्युपगमात् ।
न च बाधकालीनेच्छाधीनज्ञाने बाधहेतुताया अप्रमाणिकतया एतदनुरोधेन तत्कल्पने च गौरवादिच्छाया उत्ते. जकत्वमावश्यकमिति वाच्यम् ; आपत्तिस्थले बाधहेतुताया आवश्यकत्वात्तत्रापत्तित्वमनिवेश्येच्छाकालीनज्ञानसाधारण-- तादृशबाधाऽव्यवहतोत्तरज्ञानत्वस्यैव तज्जन्यतावच्छेदकत्वोपगमादतिरिक्तकारणत्वाऽकल्पनात् । न चैवमापत्त्यन्यज्ञानस्यापि बाधकाले इच्छां विनापत्तिरिति तत्रेच्छाहेतुत्वकल्पने १-'तत्तदापादवत्ताज्ञान' इति दे० । २-'मन्मते' इति नास्ति दे० ।