Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ ६६ ] [ वादमालायां तरत् प्रसिद्धमस्ति यदनेन लक्षणेन व्यावर्त्येतेति चेत् १ वस्त्वितरत्केवलसामान्यादिकं शसशृङ्गादिकं वा विकल्पप्रसिद्धं व्यावर्त्तयदिदं वस्तुलक्षणं घटत इति सम्प्रदायः । वस्तुतो नेतरव्यावृत्तिमात्रं लक्षणप्रयोजनं किन्तु व्यवहारविशेषोऽपि, ततोऽदोषशब्दार्थोभयत्वावच्छेदेन काव्यवच्त्वव्यवहारायाऽदोषशब्दार्थोभयस्य काव्यलक्षणत्ववत्सामान्यविशेषोभयत्वावच्छेदेन वस्तुत्वव्यवहाराय सामान्य विशेषोभयस्य वस्तुलक्षणत्वमविरुद्धम् । न चात्र तदितरावृत्तित्वाऽप्रसिद्धिः, त्वन्मतेऽपीतरत्व सामान्ये तत्प्रतियोगिकत्वस्वाधिकरणानुयोगिकत्वो भयाभावस्य तत्प्रतियोगिकन्व सामान्ये स्वसमानाधिकरण भेदवृत्तित्वाऽमावस्य वा निवेशात्, तद्वृत्त्यभावाऽप्रतियोगित्वे सति स्वसम्ब न्धिवृत्तिभेदाऽप्रतियोगितत्कत्वस्य तल्लक्षणत्वपर्यवसानात् । अत एव ' केवलव्यतिरेकि हेतु विशेष एव लक्षणमित्यनादृत्य शिवादित्योऽपि 'प्रमितिविषयाः पदार्था' इति पदार्थ सामान्यलक्षणं कृतवान् । यत्तु · 'परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणमिति वार्त्तिकवचनमनुरुध्याऽसाधारणधर्मवचनं न लक्षणं दण्डादेरतद्धर्मस्यापि देवदत्तलक्षणत्वाद्, अव्याप्तलक्षणाभासातिव्या प्तेश्चेति धर्मभूषणेन दूषितं तत्र तु वयं न सम्यक्कौशलमवगच्छामः, 'सजातीयविजातीयव्यावृत्तिफलकत्वेनाऽसाधारण

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158