________________
६६ ]
[ वादमालायां
तरत् प्रसिद्धमस्ति यदनेन लक्षणेन व्यावर्त्येतेति चेत् १ वस्त्वितरत्केवलसामान्यादिकं शसशृङ्गादिकं वा विकल्पप्रसिद्धं व्यावर्त्तयदिदं वस्तुलक्षणं घटत इति सम्प्रदायः । वस्तुतो नेतरव्यावृत्तिमात्रं लक्षणप्रयोजनं किन्तु व्यवहारविशेषोऽपि, ततोऽदोषशब्दार्थोभयत्वावच्छेदेन काव्यवच्त्वव्यवहारायाऽदोषशब्दार्थोभयस्य काव्यलक्षणत्ववत्सामान्यविशेषोभयत्वावच्छेदेन वस्तुत्वव्यवहाराय सामान्य विशेषोभयस्य वस्तुलक्षणत्वमविरुद्धम् ।
न चात्र तदितरावृत्तित्वाऽप्रसिद्धिः, त्वन्मतेऽपीतरत्व सामान्ये तत्प्रतियोगिकत्वस्वाधिकरणानुयोगिकत्वो भयाभावस्य तत्प्रतियोगिकन्व सामान्ये स्वसमानाधिकरण भेदवृत्तित्वाऽमावस्य वा निवेशात्, तद्वृत्त्यभावाऽप्रतियोगित्वे सति स्वसम्ब न्धिवृत्तिभेदाऽप्रतियोगितत्कत्वस्य तल्लक्षणत्वपर्यवसानात् । अत एव ' केवलव्यतिरेकि हेतु विशेष एव लक्षणमित्यनादृत्य शिवादित्योऽपि 'प्रमितिविषयाः पदार्था' इति पदार्थ सामान्यलक्षणं कृतवान् ।
यत्तु
·
'परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणमिति वार्त्तिकवचनमनुरुध्याऽसाधारणधर्मवचनं न लक्षणं दण्डादेरतद्धर्मस्यापि देवदत्तलक्षणत्वाद्, अव्याप्तलक्षणाभासातिव्या प्तेश्चेति धर्मभूषणेन दूषितं तत्र तु वयं न सम्यक्कौशलमवगच्छामः, 'सजातीयविजातीयव्यावृत्तिफलकत्वेनाऽसाधारण