________________
सामान्यवादः ]
[ ७
9
धर्मो लक्षणमित्यर्थस्याSSकरे व्यवस्थितत्वात् । निरुक्ताऽसाधारणधर्मस्याऽव्याप्ताऽवृत्तित्वात् दण्डादेस्तु विशेषणत्वमात्रेणैव लक्षणत्वाभिधानात् । इत्थमेव भाष्योक्तपूर्वपदव्यमिचार्यादिलक्षणव्यवस्थोपपत्तेः । परस्परव्यतिकरे सती' ति विशेषणमहिम्ना रूपान्तरेण स्वेतर भेदाभावसमावेशाय सिद्धस्य स्वेतर भेदवृत्त्यवच्छेदकधर्मस्य लक्षणत्वलाभेऽपि दण्डादेरति: प्रसक्तस्याऽतथात्वात् । किञ्चैवं केवलान्वयिलक्षणमपि न सुष्ठु घटत इति प्रसिद्धनीत्यैव सर्वमवदातम् ॥ १॥
[ वस्तुलक्षणवादः समाप्तः ]
[२] सामान्यवादः ।
de
1.
द्रव्यगुणकर्म वृत्तिपदार्थान्तरमेव सामान्यमिति नैयायिकाः । अपाहरूपमेव तदिति सौगताः । वस्तुन एव समानः परिणामस्तदिति परमपुरुषवचनानुसारिणः ।
"
3
i
तत्र नैयायिकास्तावदित्थं प्रमाणयन्ति - सर्वत्रानुगताकारप्रती तीनामेकविषयत्वौचित्यात् 'सत्सदिति 'द्रव्यं द्रव्य - मि' ति 'घटोयं घटोयमित्यादिप्रतीतिभिः सत्त्व द्रव्यत्व-घट - त्वादिसामान्यसिद्धिः । तच्च सामान्यं द्रव्यादित्रयवृत्त्येव । सामान्यस्य सामान्यवृत्तित्वेऽनवस्थाप्रसङ्गात् । क्लृप्तजातिषु जातित्व स्वीकारे स्वस्वसहित स्वपि तासु जातित्वांतरकल्पने तत्साम्राज्यात् । सामान्यस्य सामान्यसमवायित्वे द्रव्याश्रि