________________
१८]
[वादमालायां
तत्वे सति समवायित्वेन गुणाधन्यतरत्वप्रसङ्गादवस्थाभावोऽनवस्थेत्यन्ये।
विशेषे तत्स्वीकारे च रूपहानिप्रसङ्गो, न हि जात्या समानतापनानां विशेषाणां व्यावर्तकत्वं सम्भवति । सम्भवे वा नित्यद्रव्यगतैरेकत्वादिभिरेव तत्सम्भवे विशेषस्यैव वैयर्थ्यप्रसङ्गः । समवायाऽभावयोश्च समवायरूपसम्बन्धाऽभावान्न जातिमत्त्वमिति । सामान्यादौ 'सामान्यं सामान्यमि'त्याद्यनुगतधीस्तूपाधिनैव । असावपि परंपरासम्बद्धजातिस्वरूप एव, तत्र 'सत्सदितिधीस्तु सत्तैकार्थसम्बन्धात् । अभावे तु विरोधग्रहादेव न सत्ताधीरभावावृत्तिसत्तैकार्थसम्बन्धेनैव सत्ताग्रहे वा सिदि'त्यभिलापान तत्र सत्ताभिलाप इति । _ तदेतदखिलमिन्द्रजालकल्पम् । पदार्थान्तरभूतस्य सामान्यस्य तत्सम्बन्धस्य च समवायरूपस्य सर्वगतत्वेन पटादावपि घटत्वादिवत्ताधीप्रसङ्गात् । - अथ पटादौ घटत्वादिसमवायसत्त्वेऽपि समवायेन न घटत्वादिवत्ता, तदाधारताया घटादिस्वरूपत्वादतो नोक्तदोषः न च तदीयसम्बन्धवत्त्वं तद्वत्त्वनियतम्, गगनीयसंयोगे व्यभिचारात् । वृत्तिनियामकत्वविशेषणान्नैवमिति चेत् १ न, करवृत्तितानियामककपालसंयोगवत्कपालस्य स्वाऽमाववत्त्वेन व्यभिचारात् । तत्र तवृत्तितानियामकः सम्बन्धस्तत्र तद. त्तानियत इति चेत् १ अनुमतमेतत् , अत एव घटत्वादिसम