________________
सामान्यवादः ]
वायस्य पटादिवृत्तिताऽनियामकत्वेन तत्र तद्वत्ताऽभावाभ्युपगमात् । सन्नपि तत्र तत्समवायः कथं न तद्वृत्तिनियामक इति चेत् १ तदिदमनुमवं प्रति प्रष्टव्यम्, यो घट एव घटत्वमिति नयत्येन समुन्मीलतीति ।
एतेन सामान्यस्य सर्वगतत्वं यदुच्यते तत् किं सर्वसर्वगतत्वं व्यक्तिसर्वगतत्वं वा ? आद्ये अंतराले पटादिव्यवतावपि तदुपलब्धिप्रसङ्गः । अव्यक्तत्वात्तत्र तस्यानुपलम्भे च व्यक्तेरपि तत एव तदुपपत्तौ सर्वगतत्वं किं न स्यात् ? असत्वादन्तरानुपलम्भस्तूभयत्र तुल्यः । न च घटादिव्यक्तीनां घटत्वादिव्यं जकत्वादन्यत्रानुपलम्भः, तासामेव तदभिव्यक्तिहेतुत्वे तत्कल्पनानर्थक्यप्रसङ्गात् । कार्याऽसहभावेन सन्निकर्षस्य हेतुत्वे घटनाशकाले घटचक्षुः संयोगसच्चात्तदुत्तरं घटप्रत्यक्षवारणाय लौकिकविषयतया घटप्रत्यक्षं तादात्म्येन घटस्य हेतुत्वेन त्वन्मतेऽपि तस्य घटत्वाभिव्यञ्जकत्वानुपपत्तेश्च । न च तादात्म्यसमवेतत्वान्यतरसम्बन्धेनैव तद्धेतुता, सत्येवाश्रये रूपादिनाशकाले रूपादिप्रत्यक्षवारणाय रूपादीनां पृथक्कारणस्वावश्यकत्वे तथा हेतुत्वे मानाभावात् एवमपि घटे पटत्वप्रत्यक्षापत्तेरनुद्धाराच्च । इत्थं च घटतद्वृत्तिजात्यन्यतरप्रत्यक्षे - तादात्म्यानवच्छिन्नसमवेतत्वान्यतरसंबन्धेन घटहेतुत्वेऽपि न निस्तारः । न च घटत्वादिसन्निकर्षे घटादिविषयान्तर्भाव एव तदूव्यञ्जकत्वं द्रव्यसमवेतचाक्षुषत्वावच्छिन्ने चक्षुः संयु
[ ९९
♦