SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०० ] [ वादमालायां क्तसमवेतत्वेन सामान्यत एव प्रत्यासत्तित्वाद् , घटाद्यन्तर्भावेन विशिष्य नानासनिकर्षहेतुत्वकल्पने महागौरवात् । द्वितीय पक्षेपि चोत्पद्यमानव्यक्तौ सामान्यस्य व्यक्त्या सहैवोत्पादे व्यक्त्यन्तराद्वा समागते स्वीक्रियमाणे तस्य नित्यत्व-क्रियावत्त्व-व्यक्त्यन्तरनिःसामान्यत्वाद्यापत्तिरिति प्रत्याख्यातम् , घटादिस्वरूपापाया एव घटत्वाद्याधारतायाः स्वीकारेण तस्य व्यक्तिसर्वगतत्वव्यवस्थानादिति चेत् ? न, घटादिस्वरूपाया घटत्वाद्याधारताया भूतलघटादिवृत्तित्वाऽवृत्तित्वाभ्यां तेषु तत्प्रतीत्यप्रतीतिप्रसङ्गात् । घटादिस्व. रूपमप्याधारतात्वेन घटादिवृत्त्येवेति न दोष इति चेत् १, न आधारतात्वाऽनिरुक्तेः । एकत्र स्ववृत्तित्वस्वावृत्तित्वयोः शबलवस्त्वभ्युपगमं विनाऽसम्भवात् । अत एव घटत्वसमवाये घटपटाद्याश्रयभेदेन वृत्तिनियामकत्वाऽनियामकत्वभेदोऽपि दुरुपपादः । अथाऽऽधारता नाधाररूपा नाऽप्यतिरिक्ता, किन्तु कुण्डादौ बदरादेबंदरादिप्रतियोगिकत्वविशिष्टसंयोगरूपैव, घटादौ च घटत्वादेः समवायरूपैव, नवीनैः समवायनानाऽभ्युपगमे दोषाऽभावदिति चेत् ? न तथापि पीतघटे नीलत्वविशिष्टघटत्ववत्ताधीप्रसङ्गात् । विशिष्टसमवायस्याप्यतिरिक्तत्वान्न दोष इति चेत् ?न,तथा सति विशिष्टस्यैवातिरिक्तत्वकल्पनौचित्यात् । अत एव'नीलत्वविशिष्टघटत्वं न पीतघटवृत्ति' इति
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy