________________
सामान्यवादः ]
[ १०१ प्रत्ययः तत्तवृत्तीत्यप्रत्ययश्च सर्वसिद्धः । इत्थं च 'प्रतिव्यक्ति विशिष्टरूपेण भिन्नं, शुद्धरूपेण चाऽभिन्न सामान्यमनुभूयत इति कथं सर्वथैकं सामान्यं ? विशिष्टाऽविशिष्टयोआंद' एवेतिसार्वभौममतं तु भेदे निराकरिष्यामः॥
अतिरिक्तं सामान्य व्यक्तिष्वेकदेशेन समवेयात्कात्स्न्येनवा! आद्य सावयवत्वप्रसङ्गः अन्त्ये च प्रतिव्यक्ति नानात्वापत्तिः । , न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव, देशकात्ययोस्तनुपगमादापादकाऽभाव इति वाच्यम् , उक्ताऽभ्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात् । अत्रान्यतरप्रकाराश्रयणेऽन्यतरदोषाऽऽपत्तेः उभयाऽसिद्धौ च वृत्तित्वविशेषाभावसमुदायेन वृत्तित्वसामान्याभावापत्तेर्वज्रलेपत्वादिति सम्मति. टोकाकृतामाशयः।
ननु देशकात्य॑वृत्तित्वे किञ्चित्सर्वावयवावच्छिन्नसंयुक्तत्वलक्षणे द्रव्यवृत्तित्वस्यैव विशेषौ, न तु वृत्तित्वसामान्यस्येति नेयमापत्तिघंटत इति चेत् ? न, अवच्छिन्नाऽनवच्छिन्नवृत्तित्वविशेषाभावाभ्यां तदवृत्तित्वाऽऽपत्तेराधेऽव्याप्यवृत्तित्वस्य द्वितीये च प्रतिव्यक्ति भेदस्याऽऽपत्तेरित्याशयात् । अत एवैतद्घटवृत्तिघटत्वमपरघटावृत्ति. एतद्घटपर्याप्तत्वादेतद्घटेकत्ववदित्यप्यापादितं . न्यायालोकेऽ. स्माभिः । किञ्च, समानानां स्वभाव एव सामान्यं नत्व