SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२1 [ वादमालायां रिक्तम् , अत एव स्वस्वातिरिक्तपदार्थेषु प्रमेयत्वस्वभावेन 'प्रमेयमिति बुद्धिवद्भावत्वस्वभावेनैव 'सदिति धीः । सत्स त्तयोविलक्षणसम्बन्धावगाहिनी सत्ताधीः पुनरसिद्धा । यथा च भावत्वस्य नियतानुगतव्यावृत्तव्यपदेशनियामकत्वं तथा सिद्धान्तपक्षे निरूपयिष्यामः । द्रव्यजन्यतावच्छेदकतया सिद्धं सत्त्वं गगनादो द्रव्यस्वादिना सांकर्यभियेव स्वीक्रियते, न तु सामान्यादौ मानाभावात , अतस्तत्रैकार्थसमवायेनेव सत्ताधीरिति पदार्थमालालिखनं तु न ज्यायः, अवच्छिन्नसमवेतत्वेनैव द्रव्यजन्यतावच्छेदकत्वसम्भवात् । उपाधिसांकर्यस्येव जातिसांकर्यस्याप्यदोषत्वात् । परस्पराभावसमानाधिकरणजातित्वेन परस्पराभाव. ध्याप्यत्वे मानाभावाच्चेति दिक् । सौगतास्तु संगिरन्ते पदार्थान्तरभूतं सामान्यं ताववाहतरेव निराकृतम् । अत्यन्तविलक्षणस्वलक्षणस्वरूपं च विरोधादेव तन्न सम्भवति, व्यक्त्यंतरात्मजात्यात्मताया व्यक्त्यंतरानुगमे स्वलक्षणत्वव्याघातात् । ततो गौौरित्याद्यनुगताकारप्रतितेरन्यव्यावृत्तिमात्रेणेव व्यक्तिषु प्रसिद्वरप्रामाणिक एव सामान्यस्वीकार इति । तदप्यसत् । अन्यव्यावृत्तहिगेवादिव्यक्तिवृत्तित्वे सामान्यरूपताया दुर्निवारत्वात् । सकल व्यक्तिगतस्यानुगतस्य रूपस्याऽस्मन्मते भावाभावरूपत्वात् ।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy