________________
सामान्यवादः ]
: [१०३ . आन्तरत्वे तु तस्या बहिराभिमुख्येनोल्लेखो न स्यात् । नान्तर्बहिर्वा सेति तु स्वाभिप्रायमात्रं, तादृश्यास्तस्या अलीकत्वेन तथाभूतप्रत्ययजनकत्वाऽयोगात् । अनाविवासनानिर्मित एवायमिति चेत् ? तर्हि तत्र कथं बाह्यार्थविशेषापेक्षा ?
अथ दृष्ट एवार्थे वासना सामान्यविकल्पजननी दर्शन एव च बाह्यार्थविशेषापेक्षा, न तु विकल्पे, तच्च स्वविषयसामान्यव्यवसायिविकल्पोत्पादनद्वारा वस्तूपदर्शयदर्थप्रापकं सत् प्रमाणं स्यादित्यस्माकं प्रणालीति चेत् ?, न, अपोहरूपस्य सामान्यस्याऽवस्तुत्वे तद्विषय(क)व्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् संशयविपर्ययकारणदर्शनवत् । अथ दृश्यविकल्प्ययोरेकीकरणाद्वस्तूपदर्शक एव विकल्पोऽत एव विकल्पितस्य सामान्यस्य बहिराभिमुख्येनोल्लेख इति चेत् ? किमिदमेकीकरणम्-एकरूपतापादनमेकत्वाध्यवसायो वा ? नाद्योऽन्यतरपर्यवसानप्रसङ्गात् । नापि द्वितीयः, उपचारतेन दृश्यविकल्प्यैक्येन वस्तूपदर्शकत्वाऽयोगात् ।
किश्च, तदेकत्वाध्यवसायो दर्शनेन विकल्पेन ज्ञानान्तरेण वा भवेत् ? नाद्यः पक्षो, दर्शनस्य विकल्प्याऽविषयत्वात् । न द्वितीयो, विकल्पस्य दृश्याऽविषयत्व त् । न तृतीयो, ज्ञानान्तरस्य निर्विकल्पसविकल्पकविकल्पयुगलानतिक्रमेण दृश्यविकल्प्यविषयद्वयविरोधात् । न च तदुभयाऽगोचरं ज्ञानं तदुभयैक्यमाकलयितुमलमिति ।
माजामाता .