________________
१०४]
[ वादमालायां
अथ दृश्याऽगृहीताऽसंसर्गकविकल्प्यविषयत्वमेव विकल्पस्य दृश्यविकल्प्यैकीकरणं, तेनैव सामान्यस्य बहिरर्थनिष्ठतोल्लेरवः । न चैवमवस्तुभूतसामान्यविषयस्य व्यवसाय य वस्त्वनुपदर्शकत्वात्तज्जनकत्वेन दर्शनस्य प्रामाण्यं दुर्घटमिति पाच्यम् , परमार्थतो वस्त्वनुपदर्शकमपि व्यवसायं द्वारीकृत्यार्थप्रापकत्वेन दर्शने व्यावहारिकप्रामाण्यस्येवोपगमात् । 'यत्रैव जनयेदेनाम् , तत्रैवास्य प्रमाणते'ति ग्रन्थस्य व्यावहारिकप्रामाण्यप्रयोजकरूपप्रदर्शनपरतयैव व्यवस्थितत्वात् । क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्यानुरूपविकल्पानुत्पा. दनेन व्यवहारत एव न प्रामाण्यं, परमार्थतन्तु क्षणक्षयादेरपि वस्तुस्वरूपत्वात्तत्रापि सन्मात्रविषयत्वरूपं प्रामाण्यं स्वग्रायमेवेति न स्वोत्पत्तौ स्वज्ञप्तौ वा विकल्पमपेक्षते । नचाऽसद्विषयत्वाऽभावव्याप्यसद्विषयत्वादिना सन्मात्रविषयत्वादि ग्राममिति कथं तत्र स्वग्राह्यतेति वाच्यम्, असद्विषयत्वाऽभावादेरपि स्वरूपानतिरेकात्स्वरूपतः स्वग्राह्यतायाम्तत्राप्यऽप्रत्यूहत्वात् । तत्तद्रपेण तु विकल्पविषयतव । न चैवं तेषामसवाऽऽपत्तिः, स्वरूपातिरिक्तत्वेन तदसत्त्वस्येष्टत्वात् । न हि निर्वि. कल्पकं सन्मात्रावलम्बनमित्यादिबुद्धिनां बौद्धाः प्रमाणत्वमुपयन्ति, तथा सत्ययं घट इत्यादिबुद्धरपि प्रामाण्याऽऽ. पत्तेः । न चैवं ज्ञानप्रामाण्यस्य स्वतांग्रहे प्रामाण्यसंशयाऽनुपपत्तिः, निर्विकल्पके तदसिद्धेः, तदुत्तरोत्पन्नज्ञाने च समु.