________________
सामान्यवादः ]
: [ १०५ .ल्लिखिताऽनुगताकारे, प्रमाणाभावेन, स्वतःप्रामाण्याऽग्रहाऽयोगादेव तत्संशयोपपत्तेः । न चानुगताकारविषयत्वेनैव प्रामाण्याभावनिश्चयात्तत्संशयो दुर्घटस्तस्य तद्वयाप्यत्वाऽनिश्चयदशायां सन्देहसाम्राज्यात् । सन्दिह्यता वा दर्शनेऽपि विशेषाऽनाकलनदशायामर्थप्रापकत्वरूपं व्यावहारिकं प्रामाण्यमिति चेत् १ . . . . . .
_न, सामान्यस्याऽवस्तुत्वे गवादिदर्शनेऽपि गवादिविषयत्वस्य, नियन्तुमशक्यत्वात् । तत्तद्वयक्तिविषयत्वमेव गवादिविषयत्वमिति चेत् । तत्रापि गवादिरूपत्वं नत्ववादिरूपत्वमिति नियतसामान्यसम्बन्धं विना कथं नियन्तु शक्यम् ? कथं वाऽवस्तुभूतसामान्यविषवत्वेऽनुमानस्याऽपि प्रमिाणत्वं सुपपादम् । कथं च सामान्यास्याऽवस्तुत्वेऽयं गौरित्यादिविकम्पानां शश-शङ्गादिविकल्पतुल्यत्नाऽप्रमाणत्वानिक्मतः प्रवर्तकत्वम् ? भध्यक्षविषयविषयकन्वरूपसंवादाभिमानेन तत्र प्रामाण्याभिमानादेव तथात्वमिति चेत् न, क्रमिकाध्यक्षव्यक्त्योरप्येकपरमार्थसद्विषयकत्वाऽभावेन तत्र प्रामाण्यसहचारा'ऽज्ञानात् । - इत्थं च चानुमानप्रमाणमप्यनभ्युपगच्छतः सर्वत्र सम्भावनयैव व्यवहारमुपपादयतः सामान्यापलापिनश्चोर्वाकस्यापि मतमपास्तम् , सामान्याभावे विकल्पे सम्भावनाय चा-संवादप्रामाण्ययोरकगमानुपपत्तेः। अथ विकल्पेध्यक्षमूलक.