________________
१०६ ]
[ वादमालायां
त्वमेव संवादः, सम्भावनायां त्वध्यक्षमूलकविकल्पविषय विषयकत्वमेव, तस्य च यद्यपि न वास्तवप्रामाण्येन सहचारस्तथापि ततः पराभिप्रेतप्रामाण्याभिमानाद्वयवहारोपपत्तिरिति वाच्यम्, ( १ चेन्न) गोदर्शनोत्तरभावितुरग विकल्पस्याप्यध्यक्षमूलकत्वेन प्रामाण्यप्रसङ्गात् । अथ तत्र गोदर्शने गोरूपस्य तुरगत्वाऽसंसर्गस्य ग्रहाद् दृश्याऽगृहीताऽसंसर्गकविकल्प्यविषयत्वरूपं प्रामाण्यं नास्तीति चेत् ? न, गोत्वस्यालीकत्वे तदसंसर्गस्य गोदर्शने - नापि ग्रहात्तत्पृष्ठभावि गोविकल्पस्याप्यप्रामाण्यापत्तेः, दृश्यवृतिरसंसर्गत्वप्रकारक ग्रह भावस्त्वसंसर्गग्रह का लेप्यस्ति दृश्यस्य विकल्पाऽविषयत्वात् ।
9
यत्तु - विकल्प्याऽवच्छिन्नत्वेन दृश्यं विकल्पेऽपि भासते, तत्र च कल्पित सामान्यसंसर्गवति कल्पित सामान्यप्रकारकत्व - मेवोपचरितं विकल्पस्य प्रामाण्यमबाधम् मुख्यं सन्मात्र - विषयत्वलक्षणं तु निर्विकल्पक एवेति तत्त- मिथ्यैव, यथार्थ - प्रवृत्त्यादिनिर्वाहार्थं विकल्पे परमार्थतो यथार्थत्वव्यवस्थितेः । स्वेच्छामात्रकृतायाः परिभाषाया अन्याय्यत्वात् । तस्मात्सामान्योल्लेखी विकल्प एव प्रमाणत्वेनानुभूयमानः सामान्यस्य वस्तुत्वसाधकः, इत्यधिकं लतायाम् ॥
तदेवं नेयायिक सौगतमतसामान्यानुपपत्याः वस्तुनः समानपरिणाम एव सामान्यमित्याह तमतमेवादरणीयं निपुण