________________
सामान्यवादः ।
[ १०७
बुद्धिभिः । विशेषात्मना व्यावृत्तस्यैव तस्य स्वरूपेणानुवृत्तस्योपलम्भात् । सत्तात्मनाह्यनुवृत्ता हि सत्ता घटायमच्छिन्ना, तत्तद्देशकालादिव्यावृत्तैवोपलभ्यते-'इह देशे घरः समान्यत्र, 'इदानीं घटः सन्न पूर्वेद्यु'रिति देशकालादिव्यावृत्तसत्ताप्रत्ययादेव सत्तासामान्यं नास्तीत्यस्तु दोधितिकृन्मतमेव मम्यगिति चेत् १ न, एवं सति घटत्वादिसामान्यस्याप्यनुगतस्यापलापा पत्तः, 'अस्यां मृदि घटत्वं नान्यस्याम्' 'इदानीं मृदि घटत्वं नान्यदेति तस्यापि देशकालादिव्यावृत्तस्यैवानुभवात् । कार्यता वच्छेदकत्वादिना घटत्वादेरेकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्ययापलापे च घटाभावप्रकारकज्ञानप्रतिवद्वयतावच्छेदकत्वादिना घटादेरप्येकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्यय. स्याप्यलापप्रसङ्गात् । घटत्वविशिष्टघटादेर्दण्डादिकार्यता घटादिविशिष्टमृदादेर्वेति विनिगन्तुमशक्यत्वात् ।
__ व्यावृत्तत्वे कथमनुवृत्तत्वं सामान्यस्येति तु द्रव्यत्वादिकं सामान्यविशेषमभ्युपगच्छता न वक्तु शक्यम् । यथा हि द्रव्यत्वादिकमद्रव्यादिव्यावृत्तिरूपं सदपि परेषां मते भावां न जहाति तथा कथंचिद्वयक्तिरूपं सदपि सामान्यमस्मन्मते सामान्यरूपता न हास्यतीति । अत्यन्ताभावाऽत्यन्ताभावः प्रतियोग्येवान्योन्याऽभावात्यन्ताऽभावस्तु प्रतियोगितावच्छेकमिति प्राचीनप्रवादो न युक्तोऽभावत्वप्रतीतेरतिरिक्ताऽभावविषयत्वात् ,अभावाभावादेरतिरिक्तत्वस्वीकारात्तृतीयाऽभावादेः