________________
. १०८ ]
[वादमालायां प्रथमाभावादिरूपत्वेन नाऽनवस्थेति नवीनसिद्धान्तात् । सामान्यविशेषत्वं च न सामान्यत्वे सति विशेषत्वं किन्तु सत्ताव्याप्यत्वे सति तद्वयाप्यव्यापकत्वमिति सामान्यत्वविशेषत्वयोर्विरोध
एवेति चेत् ? न, तयोः प्रत्यक्षेणैवाऽविरोधसिद्धेः, घटत्वाभा. वाभावादेघटत्वाद्यतिरिक्तत्वे मानाभावादभिलापमात्रभेदेना
भेदेऽतिप्रसङ्गात् । घटत्वाभावादिज्ञाने घटत्वज्ञानत्वादिना पृथकप्रतिबन्धकत्वकल्पने गौरवाच्चेति । न च घटवस्याऽघटघ्यावृत्तित्वे 'घटोयमि'तिज्ञानकाले न अघटोयमि' ति ज्ञाना. ऽऽपत्तिरघटव्यावृत्तित्वस्य प्रतियोगिज्ञानव्यंग्यत्वात् । ... नचाऽतद्वयावृत्त्यात्मकविशेषरूपत्वं सामान्येस्त्वनुगतत्वा. ऽव्याघातात्तत्तद्वयक्तिविशेषात्मकत्वं तु न सम्भवत्यनुगतत्व. . ठयाघातादिति वाच्यम् . सामान्यविशेषत्ववलुप्त द्वित्वेनेव
तत्तद्वयक्त्यात्मकत्वकृतानेकत्वेनाप्येव त्यस्याऽविरोधाद्वस्तुन
एकानेकस्वभावत्वस्य प्रामाणिकत्वात् । केवलं घटत्वाऽतद्वथा. प्रत्योरनवच्छिन्न एवाभेदः । घटत्वे तत्तद्वयक्त्यभेदस्तु तत्त
व्यक्तित्वाद्यवच्छेदेनैव । त दस्तु स्वरूपत एवेति कथंचिदनुगमव्यावृत्तिमत्सामान्यम् , स्वरूपतः सामान्यस्यैकत्वाच्च सामान्यमेकमिति मुख्यो व्यवहारः । सामान्यमनेकमिति व्यवहारस्त्वनेकत्वाऽवच्छेदकधर्मवाचकपदसममभिव्याहारमपेक्षते । युगपद्विरुद्धधर्मप्रतीत्योश्चावच्छेदकभेदविषयत्वं नियतं यथा पूर्वमयं घटः श्यामो न त्विदानीम् । 'मूले वृक्षः कपि