________________
वस्तुलक्षणम् ]
[१५
स्यावच्छेदकन्यूनवृत्तित्वनियमात् । तदन्ताद्वयत्वमेव बुद्धिविशेषविषयत्वरूपमवच्छेदकमिति चेत् ? तथापि घटपटोभयवृत्त्येकत्वस्यैव घटपटोभयमेदवृत्त्यवच्छेदकत्वे 'घटौ न घटपटावि'त्यस्या(:) प्रसङ्गः । घटपटोभयत्वान्यसंख्याव्यक्तीनां विशिष्य तदवच्छेदकत्वोपगमे च 'इमे घटा इमे च पटा न घटपटाविति व्यक्त्यपेक्षबहुत्वावच्छेदेन जात्यपेक्षद्वित्वा. वच्छिन्नभेदप्रतीतिप्रमङ्गः ।
किश्च, 'द्वौ नैक' इत्यत्रानुभवबलाद्वयासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकभेदसिद्धौ तत एवान्यत्रापि तेन व्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावेन च स्वपररूपविधिनिषे. धाऽविरोधसिद्धौ स्याहावनीत्यैव सर्वसामञ्जस्ये किं क्लिष्टकल्पनाकष्टशतेन ! अत एव सामान्यविशेषागुवण्ठितस्यानादाऽविरोधेनैकत्रापि धर्मभेदोपरागेणेकत्व द्वित्वयोरविरोधमभिप्रेत्य 'एगे भवं दुवे भवमिति सोमिलप्रश्ने 'दव्वट्ठयाएएगे अहं नाणदंसणट्टयाए दुवे अहमि'ति(भग.सू.६४८)प्रत्युवाच परमेश्वरः। तत्र संग्रहनयाभिप्रायेण प्रथममुत्तरं, द्वितीयं च व्यवहारनयाभिप्रायेणेति । ततः स्थितमेतत् सर्वनयोपग्रहेण 'सामान्य-विशेषात्मकं वस्त्विति ।
ननु 'सामान्य-विशेषात्मकं वस्त्वि'ति न वस्तुनो लक्षणम् । सकलतद्वत्तित्वे सति तदितराऽवृत्तिधर्मस्य तम्रक्षणत्वात् । इतरव्यावृत्तिनिश्चयार्थ हि लक्षणं प्रयुज्यते न च वस्त्वि.