________________
१४ ]
[ वादमालायां च्छेदकाऽविषयैव तथा । पर्याप्त्यवच्छिन्नाऽवच्छेदकताकेकत्वद्वित्वाद्यवच्छिन्नभेदवृतौ तु द्विवेत्कत्वाद्यवच्छेदकम् , तेन 'द्वौ नेक' ‘एको न द्वाविति प्रमा, न त्वयं नैको' 'द्वो न द्वावि'त्यादि । न वा विरोधः,मूलाग्रवदिदं त्वद्वित्वाद्यवच्छेदकभेदात् । द्वित्वाद्यत्यन्ताभावस्य तु पर्याप्त्यनवच्छिन्नसमवायमात्रस्य प्रतियोगितावच्छेकत्वात् । द्वित्ववति द्वित्वात्यन्ताभावानङ्गीकागद्वा 'एकस्मिन् द्वित्वमिति न प्रतीतिः । ‘एको न द्वावित्यादिधियामेकत्वादी द्वित्वाद्यवच्छेदकत्वाभावविषयत्वमेव नत्वेकस्मिन् द्वित्वाद्यभावविषयत्वमिति तु न युक्तम् , एवं सति 'मूले वृक्षः कपिसंयोगी'ति प्रत्ययस्यापि मूले कपिसंयोगानवच्छेदकत्वावगाहित्वाऽऽपत्तेरिति नैयायिकमतपरिष्कारे को दोष इति चेत् ?
शृणु । तथापि व्यापकत्वविशिष्टसमवायरूपामतिरिक्ता वा पर्याप्तिं विनाऽपि शुद्धसमवायेन 'अयं द्वौ' 'द्वावेक' इत्यादिप्रतीत्याऽऽपत्तिः, द्वयोरेकैकस्मिन्नपि द्वित्वस्य द्वित्वावच्छिन्नाधिकरणतासत्त्वा'देको द्वावि'ति प्रतीत्यापत्तिश्च । स्वाधिकरणतावच्छेदकद्वित्वादिविशिष्ट एव द्वित्वाद्यन्वयस्य साकांक्षत्वे 'घटावि'त्यादिप्रयोगस्यानुपपत्तिः।
किञ्च, इदंत्वस्यैकत्ववृत्त्यवच्छेदकत्वे इमो द्वावि'त्यत्रेवत्वोल्लेखानुपपत्तिः । द्वित्ववृत्तौ द्वित्वावच्छिन्नमेवेदंत्वमवच्छेदक न तु शुद्धमिति न दोष इति चेत ? म, अवच्छेदकावच्छेदक