________________
वस्तुलक्षणम् ]
[ १३ वचनीयत्वादिप्रकारैः सप्तापि भङ्गाः प्रवर्तेरन् । अनन्तधर्मात्मकवस्तुनयप्रवृत्त्यपरिज्ञानवतां त्वेकत्र द्वित्वाभ्युपगमेऽपिव्याकुलीभाव एव, समायविषयत्वेनैव 'द्वावि' त्यादिप्रतीत्युपपादने ‘एको दावित्यादिप्रतीतिप्रसङ्गात् । न च पर्याप्तिसम्बन्धाभ्युपगमेपि निस्तारस्तस्यैकत्राऽसत्त्वे द्वयोरप्यभावप्रसङ्गात् । प्रत्येकावृत्तेः समुदायाऽवृत्तित्वनियमात् ।
अथ 'एकत्र द्वाविति न शाब्दधीरेकत्वाद्यवच्छिन्ने द्वित्वाद्यन्वयस्य निराकक्षित्वात् । नापि तथा प्रत्यक्षं, तत्र यावदाश्रयसनिकर्षस्य हेतुत्वात् । नचोभयाश्रयसभिकर्षकालीनस्याऽय'मेको द्वौ 'अयं च एको द्वाविति'प्रत्यक्षस्य प्रामाण्यं स्यादिति वाच्यम्, तत्प्रामाण्यस्य यावदाश्रयविशेष्यताकत्वघटितत्वात् । एकघटवति च द्वित्वावच्छिन्नाधिकरणताविर• हादेव नोभयघटवत्ताधीरिति द्वित्वस्य पर्याप्त्यनभ्युपगमेपि नानुपपत्तिरिति चत् १ न, तथापि द्वित्वव्याप्यधर्मेणैकत्र द्वित्वानुमित्याऽऽपत्तेः, ‘एको न द्वौ' 'द्वो नैक' इति प्रयोगाऽयोग्यताऽऽपत्तेश्च ।
अथ पर्याप्तिसम्बन्धेनैकत्वद्वित्वादेवृत्ताविदंत्वद्विन्वा. दिकमवच्छेदक, नचात्माश्रयः, द्वित्वादिव्यक्तिभेदेनापि तत्संभवात् , तेन 'अयमेक' 'इमौ द्वावि'ति प्रमा, न तु 'दावेको' 'अयं द्वावि'त्यादिकम् । 'घटावि'त्यादिशाब्दधीस्त्वव.