________________
[ वादमालायां
भेदाभेदसम्बन्धेनैकविशिष्टाऽपरत्वम् । अतिरिक्त द्वित्वे माना
६२ ]
भावात् ।
"
यत्त्वविशिष्टयोरप गोत्वाश्वत्वयोरुभयत्वप्रत्ययादतिरिक्तमेव द्वित्वमिति दोधितोमापदर्शितं तत्र तत्राप्येकज्ञानविषयत्वादिसम्बन्धेन वैशिष्टयस्य सम्भवात् । एतेन विरोधभ्रमेप्युभयत्वप्रतीतेभूतत्वमूर्त्तत्वा (द्यो १) योरपि न विशिष्टत्वरूपमुभयत्वमिति विद्योतन लिखितमप्यपारतम् । एकसम्बन्धेन विरोधभ्रमेऽपि सम्बन्धान्तरेण वैशिष्ट्यबुद्धेरप्रत्यूहत्वात् ।
ननु यदि सामान्यविशेषोभयस्य वस्तुत्वं तदा केवले सामान्ये केवले च विशेषे वस्तुत्वं न स्यादिति चेत् न, केवलस्य तस्याप्रसिद्धेः । तथापि 'एको न द्वावि'तिवत् 'सामान्यं विशेषो वा न वस्त्विति स्यादिति चेत ? स्यादेव, अत एव सामान्यं विशेषो वा न वस्तु नाप्यवस्तु किन्तु वस्त्वेकदेश इति सिद्धान्तः । तत्त्वं च तत्तादात्म्ये सति तच्च - पर्याप्त्यनधिकरणत्वम्, यथा पटतादात्म्ये सति पटत्व पर्याप्त्यनधिकरणत्वात्तन्तुषु पटैकदेशत्वव्यवहारः । पटसमवायिकारणत्वमात्रेणैव तदुपपादने तु तन्तुसहस्त्रे सहस्रसंख्यावच्छेदेनापि सहस्रतन्तुक पटैकदेशत्वव्यवहारप्रसङ्ग इति विभावनायम् ।
अत्र च सामान्ये विशेषे वा प्रत्येकं वस्त्वेकदेशत्वमेवोभूतम् । नयतात्पर्यभेदेन तु वस्तुत्वाऽवस्तुत्वोभयत्वाऽन