Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
उद्देश्यताविधेयताविचारः ]
[ ६६ स्य शक्योपपादनत्वे प्रतीतिभ्रमत्वकल्पनाया अन्याय्यत्वात् । न च वह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वावच्छिन्नाभावस्यैव तद्विषयत्वोपगमान्नानुपपत्तिः तादृशानुमितेरतथात्वादि'(अतिरिक्तविषयतानभ्युपगमेऽपि न तथाविधप्रत्ययानुपपत्तिरित्य)ति वाच्यम् , तथा 'सत्यपि 'वह्निव्याप्यधूमवान् पर्वतो घटव्याप्यवानिति' परामर्शजन्यानुमित्यनंतरं तथाप्रतीत्यनुपपत्तितादवस्थ्यात् । अनुमितिपरामर्शयोः कार्यकारणभावाग्रहदशायामपि तादृशप्रत्ययस्य सर्वानुभवसिद्धत्वात्तादृशाभावस्य तद्विषय(क)त्वासंभवाच्च ।
अथैवमपि विधेयत्वमेवातिरिक्तमास्ताम् , उद्देश्यत्वं तु विशेष्यत्वरूपमेवास्तु । किं च, विधेयतावद् विधेयतात्वमप्यवश्यमतिरिक्तं स्वीकरणीयम् , अन्यथा विधेयतानां तत्तद्विधेयादिभेदेन भिन्नतयाऽननुगमात्तद्घटितोपदर्शितधर्मावच्छिन्नप्रतियोगिताकस्याभावस्यैकस्यासंभवात् , तावदभाव. कूटस्य दु यतया तादृशप्रतीत्यनुपपत्तितादवस्थ्यात् । तथा चातिरिक्तविधेयत्वादिकल्पनमनर्थकम् , 'पर्वतो वह्निमानि'. त्याद्याकारकप्रत्यक्षसाधारणवन्यादिप्रकारतायां विधेयतात्वस्वीकारेणेवोपपत्तेः ।
न च तादृशप्रत्यक्षादिसाधारणवान्यादिप्रकारतातो 'वह्निमान् पर्वतो घटवानि'त्यादिज्ञानीयप्रकारताया भेदे
५. ( ) कोष्टगतः पाठः दे०प्रतावधिकः । २-'सत्यपि पूर्वोक्तसमूहालम्बनजन्यतथाविधानुमित्यनन्तरं तथाः' इति दे ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158