________________
३० ]
[वादमालायां
स्पदयोर्विनियोगे फले विशेषाभावात् , न हि परकीयानभक्षणे बुभुक्षा न प्रशाम्यतीति ।
न च यथेष्टविनियोगत्वं प्रवृत्तिगतो जातिविशेषस्तदवच्छिन्ने स्वत्वज्ञानमवश्यं हेतुरिति वाच्यम्, तादृशजाती मानाभावादनिष्टशङ्काजनितभयाभावादेव यथेष्टत्वोपपत्तः । भावेऽपि तत्रावश्यकन्वेन स्वार्जितत्वादिज्ञानस्यैव हेतुत्वाच्च । न च "प्रतिग्रहादिक्रिया प्रतिग्रहीत्रादिसम्बन्धजनिका कर्मक निरूप्यत्वाद्गमनवदि"त्यनुमानं तयोः स्वत्वाख्ये सम्बन्धे मानम् , कर्मकत भावेन सिद्धसाधनात् , । न च ग्राम गच्छतीत्यत्र संयोगवत्साक्षात्सम्बन्धः साध्यः; ग्रामं त्यजतीत्यादावनैकान्तिकत्वात् । न हि तत्र त्यागक्रियया कत मणोः कश्चित्साक्षात्सम्बन्धो जन्यते । नापि स्वस्वमित्यनुगतप्रत्यय एव स्वत्वे मानम् , तदसिद्धरननुगतस्यैव तद्विषयत्वात् । न चानुगतव्यवहारमात्रात्तत्सिद्धिः, शब्दानुगमेन विषयानुगमस्य कल्पयितुमशक्यत्वादन्यथा सिंहादेष्वपि हरिहरिरित्यनुगतव्यवहारादतिरिक्तो हरित्वपदार्थः कल्पनीयः स्यादिति नैयायिकसम्प्रदायः॥
नव्यास्तु स्वत्वं न यथेष्टविनियोगविषयत्वं, तादृशविनियोगोपायविषयत्वं वा । विषयताया धनस्वरूपत्वे पूर्व क्रयादेरुत्तरं च विक्रयादेः स्वत्वाऽप्रच्यवप्रसङ्गात् । क्रयादिस्वरूपत्वे च तदपगमेऽपि स्वत्वाभावप्रसङ्गात् । न च यद्व्यति