________________
न्यायाचार्य -मुनिपुङ्गवश्रीमद्यशोविजयोपाध्यायोपदीकृता
० वादमाला (२) ० ऐन्द्रश्रेणिनतं नत्वा सर्वशं तत्त्वदेशिनं ।
बालानामुपकाराय वादमाला निबद्भयते ॥१॥ तथा प्राचां गुम्फो विशदरचनाऽऽढ्योपि न यथा,
नीनानां पन्थाः प्रथयति मुदं निर्मलधियाम् । अपि स्नेहोदारास्तरलतरुणीनामिव दृशां,
विकारा वृद्धानामपि किमिह यूनां मदकृते ॥२॥ वादमालामिमां बालाः कुरुध्वं कण्ठभूषणं ।
यया सभायां शोभा स्यान्नवीनैस्तर्कमौक्तिकैः ॥३॥
___तत्रादौ स्वस्ववादः। स्वत्वमतिरिक्तं, प्रतिग्रहादिजन्यस्य यथेष्टविनियोगजनकस्य व्यापारविशेषस्य धननिष्ठस्य स्वामिनिरूप्यस्य कल्पनादिति केचित् । तन्न, चौर्याद्यनन्तरं यथेष्टविनियोगात्तत्रापि स्वत्वकल्पनापत्तेः।स्वरूपसतः स(स्वोत्वस्य यथेष्टविनियोगहेतुत्वे मयेदमर्जितमिति ज्ञानाभावेऽपि यथेष्टविनियोगापत्तेः। तादृशज्ञानविशेषितस्य तस्य तद्धेतुत्वे लाघवादावश्यकत्वाच्च तादृशज्ञानस्यैव तद्धेतुत्वे स्वत्वाऽसिद्धेः । न च स्वत्वज्ञानमेव ततुर्विनियोगरूपायाः प्रवृत्तेरिष्टसाधनताधीजन्यतया तन्निरपेक्षत्वात् । न च स्वत्वविशिष्टस्यैवेष्टसाधनत्वं, स्वत्वास्पदाऽना