Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல उस्सग्गा । इत्यादिनाऽऽचाराङ्गसूत्रे सामान्यतस्तदपवाददर्शनात् । विशेषतोऽपवादाक्षराणि तु अन्येष्वपि बहुषु आचारेषु न दृश्यन्त एवेति न तावन्मात्रेणात्रापवादाभावनिगदनं शोभनम् ।
किञ्च वज्र स्वामिनो वर्षषटकजन्मपर्याये दीक्षाऽभवत्, ततश्च तस्य विंशतिवर्षदीक्षापर्यायस्य दृष्टिवादाध्ययने सति षड्वंशतिवर्षजन्मपर्या ये जिनकल्पादिग्रहणयोग्यताऽभवत् । यद्यपि तेन दशपूर्वधरत्वान्न जिनकल्पादिकं गृहीतम्, तथापि तत्सदृशस्यान्यस्य कस्यचित् सप्तविंशतिवर्षजन्मपर्याये जिनकल्पादिग्रहणं सुवचमेवेति युक्त्याऽपि जिनकल्पे निगदितस्य वर्षसंख्यानियमस्यापवादो न दुर्घटः, एवं दृष्टिवाददानेऽपि यथासम्भवमुह्यमिति । - __ अत्रास्माकमिदमाभाति → तर्कानुसारेण तावत्तार्किकोक्तरीत्याऽपवादसम्भवो न दुर्घटः, विशेषतः शास्त्रे तदपवादाक्षरानुपलम्भस्तु तादृशापवादस्याश्चर्यवत्कथञ्चिदेव जायमानत्वात् “अल्पस्य विवक्षा नास्ति' इत्यादिन्यायेन सुबोध एव । न तावन्मात्रेणात्रापवादाभावकथनं युक्तिभृतं स्याद्वादपरिकर्मितप्रज्ञानामिति । तत्त्वमत्रत्यं बहुश्रुता विदन्ति इत्यलं विस्तरेणेति ।
മുളപ്പിറപ്പായിട്ടുണ്ടായിട്ടുമില (३) श्रेयांसि बहुविघ्नानि भवन्ति - इत्यादि । (ओ.नि. १-२) தரும் மேன் போன் கால் மேல் pேs eps to மேல் கால் மேல் மேல் காக்கும் பரப்பிரேேரம் ரே ரோம்
चन्द्रः सम्यक्त्वदेशविरतिसर्वविरत्यादिग्रहणशास्त्राध्ययनादिषु कल्याणकारिषु कार्येषु कुसंगविकथाशरीरमान्द्यस्वजनादिरागमोहनीयज्ञानावरणादिकर्मादीनि बहूनि विघ्नानि भवन्ति, इहलोकमात्रहितकारिषु तु अत एवाश्रेयोभूतेषु तीव्रारम्भादिषु विघ्नानि स्वयमेव दूरं नश्यन्तीति संक्षेपार्थः ।।
ननु काऽत्र युक्तिः ? किं विघ्नानि सचेतनानि सन्ति, येन तानि “इदं कार्यं श्रेयः, तस्मादत्र अस्माभिः प्रभूतैः भवितव्यमिति विचिन्त्य तत्र बहूनि भवन्ति, "इदं च कार्यमश्रेयः, तस्मादत्र नास्माभिर्भवितव्यम्, दूरं गन्तव्यमस्मात्कार्यादिति विचिन्त्य तानि नश्यन्तीति चेत्
इयमत्र युक्तिः, धर्मः धर्मसाधकौ च अर्थकामौ साक्षात्परम्परया वा मोक्षानुकूलौ इति तादृशा धर्मार्थकामा श्रेयोभूतानि कार्याणि । तत्र तादृशौ अर्थकामौ धर्मसाधकत्वादुपचारतो धर्म एव । லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१८

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206