Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 144
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல केवलमत्रोत्कालिकसङ्ख्या न प्रतिपादिता, सा तु सम्प्रदायानुरोधादवगन्तव्या । तदप्रतिपादनन्त्वत्र उत्कालिकत्रयस्य शीघ्रमेव भवनात् पृथक्तया सम्यगज्ञायमानत्वाद् इति अवसीयेत । ननु वह्निसंयोगेन उदकस्यात्युष्णत्वं स्पष्टमेवानुभूयते, ततश्चोत्कालिकत्रयाभावेऽपि अत्युष्णत्वानुभवात्तत्सर्वमेव जलं किमित्यचित्तं न स्वीक्रियतेति चेत् । तत्कारणमत्रैव प्रतिपादितमस्ति । बहिर्वतिजलस्य अचित्तत्वसम्भवेऽपि सर्वाभ्यन्तरवर्तिजलस्य बहिर्वर्तिजलावृतत्वेन वह्निशस्त्रसंपर्कस्याल्पतया मिश्रत्वसम्भवाद् । उत्कालिके तु सति सर्वाभ्यन्तरवर्तिजलस्यापि तत्स्थानात्परावर्तनेनात्युष्णजलानुवेधेन चाचित्तत्वभवनादिति युक्तमेवोक्तं अनुवृत्ते दण्डे उष्णोदकं मिश्रं भवतीति । PAgropograppropropropropeggiesesegmesgrogreserespndetograph (१०८) ऋतुबद्धः-शीतकालोष्णकालौ मिलितावेव भण्येते, तत्र यदि चीवराणां धावनं क्रियते, ततो बाकुशिको भवति विभूषणशील इत्यर्थः, ____ यदा च विभूषणशीलो भवति, तदा ब्रह्मविनाशो भवति, तथाऽस्थानस्थापनं च भवति, यदुत नूनमयं कामी तेनात्मानं मण्डयति, ततश्चास्थानस्थापनं - अयोग्यतास्थापनं भवतीति । तथा संपाति-मसत्त्वानां वायोश्च वधो भवति, तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । (ओ.नि. ३४९) Poskedios dodkyokodkosiyo dod kondodkositorikodkoshopstostori dod cootkoolystyrs. चन्द्र. स्पष्टम्, नवरमयमुत्सर्गमार्गः, तत्काले च लोकः न प्रायोऽतिशौचवादी, तथा मासकल्पाद्यनुसारेण विहारस्तदाऽऽसीत्, ततश्च विहारस्यात्यल्पत्वादुपधिमालिन्यमपि न शीघ्रं भवति, तथा गृहस्थपरिचयस्याप्यल्पत्वात् शासनाप्रभाजनाजुगुप्सादयो दोषा अपि प्रायोऽल्पसम्भवाः । उपकरणोपयोगस्य च तदानीमल्पत्वादपि तन्मालिन्यं प्रायोऽल्पसम्भवीत्येवमादिकारणवशात्तदानीं प्रकृताचारस्य योग्यत्वेऽपि वर्तमाने तद्योग्यत्वविचारणं अवश्यं कर्त्तव्यम् । यतो हि वर्तमाने काले साधवः प्रायो ஷஷைலுவைஷைலஜஷஷைலு ஷைஷஷைலு ஷைலஜா सिद्धान्त रहस्य बिन्दुः १४१

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206