Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 181
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல soproprogroproproproprogresopropeopgoproproprogregendegoriesdesig (१४३) ग्लानस्य नियमेन प्रायोग्यग्रहणं कर्त्तव्यम् । यदि परं नानात्वं - प्रार्थितमपि तत्र ग्लाने भवति, ग्लानार्थं प्रायोग्यस्य प्रार्थनमपि क्रियते, ततश्चोभासितं = प्रार्थितं सद् ग्लानार्थं पुनश्च यदुद्वरति, ततस्तद् परित्यज्यते, शेषं यदनवभासिअं = अप्रार्थितमुद्वरितं तद्भुञ्जीत कश्चित्साधुरिति । (ओ.नि. ६१४) aolityikoddos koironi koriysodkositorys bodyoskosdodkoskosh koi kod kodkodios. चन्द्र. अयं भावः । उत्सर्गत: घृतादिप्रायोग्यवस्तूनां प्रार्थनं प्रतिषिद्धं, "एते साधव उदरमात्रभरणैकचित्ताः निर्लज्जाश्च" इत्येवं शासनापभ्राजनादिदोषसम्भवात् । अत एव आचार्यादीनामपि प्रायोग्यं अप्रार्थितमेव ग्राह्यम्, न तु तत्प्रार्थनं कर्त्तव्यम् । परन्तु ग्लानार्थं प्रायोग्याप्रार्थने रोगवृद्ध्यादिबहुदोषाः सम्भवन्तीति तदर्थं अप्रार्थितालाभे प्रार्थनमपि अनुज्ञातम् । आचार्यस्तु समर्थोऽप्रार्थितप्रायोग्यालाभेऽपि न क्लाम्यति, समर्थत्वात् । तस्यापि ग्लानत्वे तु तदर्थमपि प्रार्थनमनुज्ञातमेव, ग्लानत्वेन प्रार्थितप्रायोग्ययोग्यत्वादिति ।। ननु ग्लानार्थं प्रार्थितं यद् उद्वरति, तत् किमर्थमन्यैः साधुभिः न भुज्यते, तस्य निर्दोषत्वात, न हि तद्भक्षणे जीवविराधनादिदोषः कोऽप्यत्र सम्भवतीति चेत् ___न, तृतीयव्रतविराधनाभयाद् ग्लानातिरिक्तसाधूनां ग्लानार्थं प्रार्थितस्य पश्चादुद्वरितस्य भोगो नानुज्ञात इति । कथमत्र तृतीयव्रतविराधनेति चेत् इत्थम्, ग्लानार्थं प्रार्थितं वस्तु दात्र्या ग्लानार्थमेव दीयते, ततश्चान्यसाधूनां तद् न दाव्या दत्तम्, ततश्च तद्भोगे अदत्तादानदोषः स्फुटः । यदि च दात्र्याऽ प्रार्थितमेव तद् दत्तं भवेत्, तर्हि सकलसाध्वर्थं तस्य दत्तत्वाद् ग्लानान्यसाधूनामपि तद्भोगे न दोष इति । ___ अत एव → “यदि ग्लानार्थं ग्राह्यमाणमिदं उद्वरिष्यति, तर्हि अन्ये साधव इदं भोक्ष्यन्ति' इति निवेदनपूर्वकं तद् गृहीतं स्यात्, दात्र्या च तत्तथाऽनुमतं स्यात्, तदा प्रार्थितमपि उद्वरितं तद् अन्यसाधूनां कल्पत एव, अदत्तादानदोषपरिहारात् - इति सूक्ष्मधिया विभावनीयम् । इदन्तु बोध्यम् । प्रायोग्यप्रार्थनं शासनापभ्राजनादिदोषप्रयोजकत्वात्प्रतिषिद्ध्यते, ततश्च यदि லலலலலலலலலலலலலலலலலலலலலலலலலலலல १७८ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206