Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
यदि च दूरभागे गमनमशक्यम्, तर्हि मध्यभागे गन्तव्यम् । स चापि द्विभागरुपतया कल्प्यः, आसन्नभागः दूरभागश्च । तत्रापि सह्यशङ्कायां मध्यभागस्य दूरभागेऽसह्यशङ्कायां च मध्यभागस्यासन्नभागे गन्तव्यमिति ।
एवं यदि मध्यभागे गमनमशक्यम्, तर्हि आसन्नभागे गन्तव्यम्, स चापि द्विभागरुपतया कल्प्यः, आसन्नभागश्च दूरभागश्च । तत्रापि सह्यशङ्कायां आसन्नभागस्य दूरभागेऽसह्यशङ्कायां चासन्नभागस्यासन्नभागे गन्तव्यमिति ।
एतच्च सर्वं अन्तर्भूमौ बहिभूमौ चोभयत्रापि समवसेयम् ।
इत्थं च बहिर्भूमौ उच्चारप्रश्रवणस्थानानि षट्, दूरभागे द्वौ मध्यभागे द्वौ आसन्नभागे च द्वौ इति कृत्वा । __अन्तर्भूमौ उच्चारप्रश्रवणस्थानानि षट्, दूरभागे द्वौ मध्यभागे द्वौ आसन्नभागे च द्वौ इति कृत्वा ।
एवमेव केवलप्रश्रवणस्थानान्यपि बहिर्भूमौ अन्तर्भूमौ च षट्पट् अवगन्तव्यानीति ।
तथा सकलबहिर्भूमिस्थानगमनासम्भव एवान्तर्वतिभूमिस्थानगमनमुचितमिति स्पष्टमवगन्तव्यम् ।
इदमत्र मतान्तरम् ।
अन्तभूमौ न आसन्न मध्य दूरश्चेत्येवं भागत्रयं कल्पनीयम, न वा प्रत्येकभागे सह्यासह्यशङ्कानुसारेण भागद्वयं कल्पनीयम्, किन्तु अन्तर्भूमौ द्वौ भागौ कल्पनीयौ, आसन्नभागो दूरभागश्च, मध्यभागो न कल्पनीयः, तत्रासन्नभागे आसन्नमध्यदूरभेदैः भागत्रयम्, दूरभागे चासन्नमध्यदूरभेदैः भागत्रयं कल्पनीयम् । ततश्च सह्यशङ्कायां सत्यां दूरभागसम्बन्धिनि भागत्रये गन्तव्यम्, असह्यशङ्कायां सत्यां आसन्नभागसम्बन्धिनि भागत्रये गन्तव्यम् ।
ननु आसन्ने दूरे च भागत्रयकल्पनं किमर्थमिति चेत् श्वादिप्रतिबन्धेन कस्यचिद् भागस्य प्रतिबद्धत्वे सति अन्यभागपरिभोगः सम्भवेदित्येतदर्थमिति जानीहि ।
अयं भावः, दूरभागे यदि एकमेव योग्यं भूमिभागं पश्येत्, तर्हि रात्रौ कदाचित्तत्र श्वोपविष्टः स्यात्, कदाचिद्वा गौस्तत्रोपविष्टा भवेत् तदेवमादिकारणात् तत्रोच्चारादि कर्तुं न शक्येतेति, ततश्चान्यभूमिप्रत्युपेक्षणाकरणात्कुत्र स उच्चारादिकं व्युत्सृजेत् ? भागत्रयदर्शने चैकादिभागस्य प्रतिबद्धत्वेऽपि अन्यभागोपयोगसम्भवान्न काचिदापत्तिरिति एवमेव बहिर्भूमावपि दृष्टव्यमिति । 00000202090000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
१८१

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206