Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 201
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல इत्थं, कार्यं तावत्सकलकारणमीलनेनैव भवति, न त्वेकद्वयादिकारणैः यथा घटः मृच्चक्रकुलालदण्डादिभिः । एवं दुर्लभबोधिकत्वादिकं कार्यं अनालोचनादिभिरनेककारणैरेव भवति न त्वेकादिकारणैः । ततश्च यथा कुलालः घटं करोतीत्युच्यते, तथैवानालोचना दुर्लभबोधिकत्वादिकं करोतीति उच्यते । यथा च मृदाद्यभावे कुलालसत्त्वेऽपि घटो न भवति, न च तावन्मात्रेण 'कुलालः घटं करोति' इतिवाक्यस्य मिथ्यात्वम्, तथैव तथाविधतीव्राध्यवसायाभावेऽनालोचनसत्त्वेऽपि दुर्लभबोधिकत्वादिकं न भवति । न च तावन्मात्रेण "अनालोचना दुर्लभबोधिकत्वं करोति" इति वाक्यस्य मिथ्यात्वम् । तथा च न कश्चिदत्र दोषः सम्भाव्यतेऽस्माभिः । किञ्चालोचना यथा एतद्भवसम्बन्धिसकलपापानां अस्मिन्भवे भवति तथैव परभवेऽपि भवत्येव । तथा च द्रौपद्यादिजीवानां प्राग्भवीयपापालोचनासद्भावादेव नानालोचना, ततश्च न तत्फलमनन्तसंसारादिकं । ननु प्राग्भवीयपापानां पश्चाद्भवे स्मरणाभावात्कथं तेषामालोचनेति चेत् । __ "सव्वा वि हु पव्वज्जा भवंतरकडाणं कम्माणं पच्छित्तं" इति वचनात् पश्चाद्भवेऽपि प्रव्रज्यादिना प्राग्भवीयपापानामालोचनायाः सम्भवात् ।। ___ या च जातिस्मरणाभावात्प्राग्भवीयपापानामस्मरणेनालोचनानुपपत्तिरुभाव्यते, साऽपि प्रकृतपाठबलादोघालोचना-सम्भवसाधनेन निराकरणीयेति । इत्थं च भवभेदेऽपि आलोचनासद्भावे सति अनन्तसंसारादिफलानुत्पत्तिरिति । __ एतत्तु बोध्यम्, प्राग्भवे पापनिगहनभावतीव्रतायां तु परस्मिन्भवे तादृशभावजन्यतीव्रमोहनीयकर्मणाऽऽलोचनाकरणाध्यवसायप्रतिबन्धादनालोचना ततश्चानन्तसंसारादिफलानामपि नासुलभत्वमिति अन्यदेतत् । pagagegoeragveeracoprdesignesiesledgrapraogsprogropsignmegeague (१६२) आह परः उत्कृष्टतोऽष्टभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्ध्यतीत्युक्तं ग्रन्थान्तरे, ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्धयति इति तदेतन्नाप्युत्कृष्टं नापि जघन्यं, ततश्च विरोध इति । லைலலைலைலைலைலைலைலைலைலைலைலைலை १९८ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206