Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ஸ்ஸ்ஸ்ஸ்
ܡܗܚܗ 999ܗܡܗ
।। प्रशस्तिः ।।
अतुलपराक्रमतपोवीर्येण विजितकर्मारिगणस्य अधिष्ठितकैवल्यसाम्राज्यस्य माण्डलिकवृन्दायमानदिव्यश्रीविभासमानानेकसुरासुरेन्द्रपूजितचरणाम्बुजस्य स्याद्वादप्रभावकसुरम्यतीर्थप्रवर्तकस्य
श्रीवीरविभोरभूद् गणभृत् श्रीसुधर्मनामा यथार्थनामा भव्यजीवविमुक्त्याधारानेकगुणप्रवाहिन्यां सुपावन्यां पट्टावल्यां चूडामणिकल्पो प्रथमो पट्टधरः ।
२००
तथैव जाता: सुनिर्मलाचारप्रचारप्रचलितचारित्रधर्मपताकाधराः अनेकाचार्याः श्रीजम्ब्वादयः ।
सार्धद्विसहस्त्रे वर्षेऽतिक्रान्तेऽजनि तत्र सच्चारित्रचूडामणि:
सुनिपुणमत्या कर्मासिद्धान्तप्रभावकः सुविहितानेकशतश्रमणवृन्दशिल्पी गच्छनायक : श्रीप्रेमसूरिः सूरिधर्मप्रासादः ।
तस्य च शिष्यः सुजात: न्यायतीर्थविस्मापकः वर्धमानतपोनिधि : सूरि : भुवनभानुः स्वभाः पराजीततुच्छर्क्षवादी ।
तस्य च पट्टेऽद्य वर्तते आचार्यः श्रीजयघोषाभिधः सिद्धांतदिवाकरः श्रमणसंघसुविस्तारकः कमनीयकान्तया भूरिक्षान्त्या परिवृत्तः गीतार्थसभामूलनायकः
तस्य साम्राज्ये प्रादूर्भूतः युगप्रधानाचार्यस्मारकः वीरशासनोदयप्रातिहारिक आबालवृद्धगम्यदेशनादक्षः श्रोतृजनसमवायस्मारिततीर्थकृद्युगः
राजबलादुद्घाट्यमानषट्पञ्चाशच्छहस्त्रशूनागृहप्रतिरोधेनाहिंसाधर्मप्रभावकः अश्रुतजिनवचनानामपि मोक्षमार्गप्रदायकोऽस्मद्गुरू श्रीचन्द्रशेखरः कारूण्यपुण्यमूर्तिः तस्य च शिष्येण मया कृतेयं कृतिः मुनिगुणहंसेन गुरूपादारविन्दचञ्चरिकेण ।
७०७७७७७७७७०७७७०७
४७०७०७०७०७०७
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 201 202 203 204 205 206