Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல công nông nghệ 6 Công nhân danh nhau như: nông (१६१) किञ्चिदकार्यं कृत्वा पुनर्यथा नैव क्रियते, तथा तस्य प्रतिक्रमितव्यं,
न पुनस्तदकार्यं हृदयेन वोढव्यम्, सर्वं आलोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह - तस्य च साधोर्यत्प्रायश्चित्तं मार्गविदो गुरव उपदिशन्ति, तत्प्रायश्चित्तं तथा तेनैव विधिनाऽऽचरितव्यम्, कथं ? अनवस्थाप्रसङ्गभीतेन सताऽऽलोचयितव्यम् । अनवस्था नाम यदि अकार्यसमाचरणात्प्रायश्चित्तं न दीयते क्रियते वा, ततोऽन्योऽपि एवमेव समाचरति यदुत प्राणिव्यपरोपणादौ न किञ्चिद् प्रायश्चित्तं भवति, ततश्च समाचरणे न कश्चिद् दोष इति । एवमनवस्थाप्रसङ्गभीतेन साधुना
प्रायश्चित्तं समाचरितव्यमिति । इतश्चालोचयितव्यम् - न तत्करोति दुःखं शस्त्रम्, नापि विषं नापि दुःसाधितो वेतालः, यन्त्रं वा दुष्प्रयुक्तं सर्पो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति, यत्करोति भावशल्यमनुद्धृतं-उत्तमार्थकाले-ऽनशनकाले ।
किं करोतीत्यत आह - दुर्लभबोधिकत्वं अनन्तसंसारित्वं चेति, एतन्महादुःखं करोति भावशल्यं अनुद्धृतम् । शस्त्रादिदुःखानि पुनरेकभवे एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम् । (ओ.नि. ८०३-८०४) toideido dedoi doodyiosdod poisori dostosily doskoshdootodidesiy sidhoodootos
चन्द्र. सर्वं स्पष्टम् । नवरमनवस्थाप्रसङ्गभयं परस्मिन्निव स्वस्मिन्नपि सम्भवति, प्रायश्चित्तकरणाभावे पुनः पुनः पापोद्भवनस्य शक्यत्वात्, प्रायश्चित्तकरणे तु प्रायः पुनः पापोद्गमनमसम्भवीति । तस्मात्स्वस्मिन्नप्यनवस्थावारणायावश्यं गुरुप्रदतं प्रायश्चित्तं वोढव्यमिति । ____ ननु पापानालोचनायाः फलं दुर्लभबोधिकत्वादिकं द्रौपदीप्रभृतिजीवेषु न दृश्यते, नहि तैः पूर्वभवे यथाछन्दत्वादिदोषाणामालोचना कृता, न च तेषां दुर्लभबोधिकत्वादिकमभवत्, ततश्च कथमेतदवगन्तव्यमिति चेत् ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒ सिद्धान्त रहस्य बिन्दुः
१९७

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206