Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல seaseenageegseasesasterococceedeoaddesperegardedoesheerecip
(१६०) 'षट्स्थाने' प्राणातिपातादिके उद्गमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा छलितेन स्खलितेन सता साधुना कर्तव्या विशुद्धिः ? किंविशिष्टा ? -
शुद्धा = निष्कलङ्का दुःखक्षयार्थं कर्त्तव्येति ।। सा च विशुद्धिरालोचनापूर्विका भवतीति कृत्वाऽऽलोचनां प्रतिपादयन्नाह - __ आलोचना च द्विविधा - मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका चतुष्कर्णा भवति, द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यो द्वितीयश्चालोचकः साधुः, एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्तिनी द्वितीया तस्या एव या आलोचयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति,
अथवा एकैका मूलगुणे उत्तरगुणे च चतुष्कर्णा, द्वयोश्च साधुसाध्वीवर्गयोर्मीलितयोरष्टकर्णा भवति, कथं ? आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीया आलोचयति यदा, तदाऽष्टकर्णा भवति,
सामान्यसाध्वी वा यद्यालोचयति तदाऽप्यष्टकर्णैवेति, अहवा छकन्ना होज्जा, यदा वुड्डो आयरिओ हवइ, तदा एगस्सवि साहुणीदुगं आलोएइ, एवं छकन्ना हवति, सव्वहा साहुणीए अप्पबितियाए
__ आलोएअव्वं, न उ एगागिणीएत्ति । (ओ.नि. ७९१) dohikodi odiyorayojitootos kotadodiyopodootyledysostosted of dyodoridoo dos
चन्द्र. सर्वं स्पष्टम् । नवरं यदि वृद्धेनाऽपि आचार्येण सह वृद्धाऽपि साध्वी न वार्तालापादिकं कर्तुं अर्हा, तर्हि यूना साधुना सह युवती साध्वी कथमेकाकिनी वार्तालापादिकं कर्तुं अर्हा भवेदिति सूक्ष्ममीक्षणीयम् । निरपवादब्रह्मचर्यमहाव्रतपरिपालनानुकूलानां वृतिभूतानामाचाराणां पालनमपि निरपवादवत् कर्त्तव्यम्, विशेषतस्तु दुष्षमाकाले कुनिमित्तकुसंस्कारकुकर्मादिदोषबहुले, अन्यथा ब्रह्मव्रतरक्षणस्य ब्रह्मणाऽपि कर्तुमशक्यत्वादित्यलमधिकेन ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १९६
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206