Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 197
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ഹിനിയായി മഹാരാജാവായ മഹാ (१५८) जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ परमरहस्समिसीणं समत्तगणिपिडगझरिअसाराणां । . पारिणामियं पमाणं निच्छयमवलम्बमाणाणं ॥ निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ ॥ या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः ? सूत्रविधिना समग्रस्य युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवंविधस्य या विराधना, सा निर्जरफला भवति, एतदुक्तं भवति - एकस्मिन्समये बद्धं कर्मान्यस्मिन्समये क्षपयतीति, किंविशिष्टस्य - अध्यात्मविशोधियुक्तस्य = विशुद्धभावस्येत्यर्थः । किञ्च परमं - प्रधानमिदं रहस्यं - तत्त्वं केषां ऋषीणां - सुविहितानां ? किंविशिष्टानां ? समग्रं च तद् गणिपिटगं च, समग्रगणिपिटकं, तस्य क्षरितः - पतितः सारः प्राधान्यं यैस्ते, समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्यम्, यदुत पारिणामिकं प्रमाणं परिणामे भवं पारिणामिकं, शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः । किंविशिष्टानां सतां पारिणामिकं प्रमाणं ? निश्चयनयमवलम्बमानानां, यतः शब्दादिनिश्चयनयाना-मिदमेव दर्शनं, यदुत पारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां किमन्येनेति ? उच्यते - निश्चयमवलम्बमानाः पुरुषाः निश्चयतः परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणम्, कथं? बाह्यकरणालसाः, बाह्य-वैयावृत्यादि, करणं तत्र अलसाः = प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति । केचिदिदं चाङ्गीकुर्वन्ति यदुत परिशुद्धपरिणाम एव प्रधानो न तु லலலலலலலலலலலலலலலலலலலலலலலலலலலல १९४ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206