Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல Saesepsogrespresepsesceness PRGOOGOPIGERPAGAPROHORasoosee (१५७) अत्राह कश्चिद् बोटिकपक्षपाती यधुपकरणसहिता अपि निर्ग्रन्था उच्यन्ते, तर्हि गृहस्था अपि निर्ग्रन्थाः, यतः तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यते - नन्विदमुक्तमेव यदुताध्यात्मविशुद्धया सत्युपकरणे
निर्ग्रन्थाः साधवः, किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते, ततः जीवनिकायैः = जीवसङ्घातैरयं लोकः संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं
नग्नकश्चक्रमन् वधको न भवति, यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्धया देशितमहिंसत्वं जिनैस्त्रैलोक्यदर्शिभिरिति । क्व प्रदर्शितं तदित्यत आह - उत्पाटिते पादे सति = ईर्यासमितस्य साधोः सङ्क्रमार्थमुत्पाटिते पादे इत्यत्र सम्बन्धः, व्यापद्येत संघट्टनपरितापनैः, कः कुलिङ्गी कुत्सितानि लिङ्गानि इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति, म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगं आसाद्य = प्राप्य न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये सिद्धान्ते, किं कारणं ? यतोऽनवद्योऽसौ साधुस्तेन 'व्यापादप्रयोगेण' =
व्यापादनव्यापारेण कथं ?, 'सर्वभावेन' = सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान्न सूक्ष्मोऽपि बन्धस्तस्येति ।
(ओ.नि.७४९-७५०) தரும் திருத் தாலிக்கும் பிரம் தினம் திருக் குரம் திரும் இடும் திருந்தில் இருந்திரத் திருந்திரம் இருக் கரத்தினம் இரவிக்கும் மேல்
चन्द्र. निश्चयनयसर्वस्वज्ञापिकेयं गाथावृत्तिः प्रायः सुगमा पुनः पुनश्चिन्तनीया ।
ஒவைஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஷை सिद्धान्त रहस्य बिन्दुः
१९३

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206