Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல विहारशक्तिहानौ सत्यामनुचितेऽपि स्थाने स्थैर्यकरणावश्यकत्वात् तत्र च निर्दोषभक्तपानदौर्लभ्यात् आधाकर्मादिदोषध्रौव्यम् । तथा कदाचित्साधवः सार्थेन सह दीर्घामटवीमुल्लङ्घयन्ति, तत्र च यदि ते अनुपानत्काः व्रजेयुः, तर्हि कण्टकादिप्रतिबन्धाद् विलम्बिताः स्युः, सार्थश्च शीघ्रं गच्छेत् । एवं सार्थस्फिटितास्ते साधवः अटव्यां आत्मविराधनादिदोषभाजो भवेयुरिति ।
तस्मादपवादपदे उपानत्परिधानमपि तपःसंयमसाधकं भवत्येवेति । उपानत्परिधानसम्बन्धिनी यतना तु ग्रन्थान्तरादवसेया ।
ൾപ്പാർപ്പിച്ചിട്ടിരിക (१५६) दुष्टाश्च ते पशवश्च, श्वानश्च श्वापदाश्च, तेषां संरक्षणार्थं यष्टिर्गृह्यते,
तथा चिक्खलः सकर्दमः प्रदेशः, तथा विषमेषु रक्षणार्थम्, तथोदकमध्येषु च रक्षणार्थं यष्टिग्रहणं क्रियते, तथा तपसः संयमस्य च साधिका यष्टिर्भणितेति । कथं तपः- संयमसाधिका ? इत्यत आह मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः-शरीरमिष्यते, तदर्था च यष्टिः शरीरार्थेत्यर्थः, शरीरं यतः यष्ट्याधुपकरणेन प्रतिपाल्यते ।(ओ.नि. ७४१) dod koshioeilood Goddesidos donlodlodkyidos bodies toibosdodkyi boortoikekoites
चन्द्र. शरीरमात्ररागप्रयोज्यं हि यष्ट्याधुपकरणव्यापारणं कर्मबन्धकारि संसारजननं च, परन्तु मोक्षरागप्रयोज्यज्ञानादिरागप्रयोज्यशरीररागप्रयोज्यं तु तत् कर्मक्षयकारि परमपदप्रापकं चेति उपकरणस्योपकरणत्वं अधिकरणत्वं वाऽध्यवसायानुसारि, न तु स्वरुपत एवेति विवेकः, अत एव रजोहरणादिकमपि उपकरणं क्रोधादिना परमारणाय व्याप्रियमाणमधिकरणम्, असिपत्रादिकं चाधिकरणं गच्छरक्षाद्यर्थ व्याप्रियमाणमुपकरणमिति ।
ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலி सिद्धान्त रहस्य बिन्दुः
१९१

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206