Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 193
________________ ७०७०७७०. ०७०७०७०७७०७०७०७० १७०७०७७०७ चन्द्र. अयं भावः, कल्पत्रयादिरुप उपधिः वर्षाकाले भिक्षाटनादौ आर्द्रा भवति, ततश्च य उपधि वर्षाकाले आर्दो भवितुं शक्यः, स द्विगुणः धार्यते वर्षाकाले, संस्तारकादि उपधिश्च न वर्षाकालेऽपि आर्द्रा भवति, ततश्च स एकैकः धारणीयः । (१५५ ) यच्चान्यद्वस्तु, एवमादि उपानहादि, तपः संयमयोः साधकं यतिजनस्य ओघोपघेरतिरिक्तं गृहीतमौपग्रहीकं तद्विजानीहि । (ओ.नि. ७३० ) ००००००००००००oooooooooooooooooooooooooooo चन्द्र. य उपधि अवश्यं धारणीयः तदुपयोगकारणं भवतु मा वा, स ओघोपधि:, यश्च कारणे सति उपयोगार्थं गृह्यते स औपग्रहिकोपधिः । उपानहादि च दीर्घाध्वादिकारणे सति संयमादिरक्षार्थं गृह्यत इति तत् औपग्रहिकोपधिरिति । ननु उपानत्परिधाने बहवो दोषाः, तथाहि उपानत्परिधाने "अहमनुपानत्कसकाशादुच्च" इत्येवमहङ्कारो भवति, कण्टकादिभयविगलनाच्चेर्यायामनुपयुक्तता भवति, ततश्च त्रसादिजीवोपमर्दः, गृहस्थैश्च समं तुल्यता भवति, यतो हि ते प्रायोऽवश्यं उपानत्परिधानं कुर्वन्त्येवेति । उपानत्परिकर्मकरणे च स्वाध्यायादि - पलिमन्थो भवति, शरीरबकुशता च स्यात् शरीररागेणैवोपानत्परिधानात् । सामाचारीभङ्गश्च भवति, अनुपानत्कविहारस्यैव साधुसामाचारीत्वादित्येवमादि- दोषकलापसम्भवान्न युक्तमुपानत्परिधानमिति चेत् तत्किं उत्सर्गवदपवादोऽपि मार्ग इति जिनवचनतत्त्वं न जानासि ? उत्सर्गत उपानत्परिधानं न कर्त्तव्यमित्यत्र को निषिध्यति ? केवलं कारणे सति तदपरिधानेऽधिकदोषसम्भवात्तत्परिधानमपि अपवादतोऽदुष्टमित्येवाख्याप्यत इति को दोष: ? कथं तदपरिधानेऽधिकदोषसम्भव इति चेत् इत्थं कण्टकाद्याकीर्णे मार्गे उपानत्परिधानं विना विहारो दुःशकः, धार्यमवलम्ब्य विहारकरणे तु कण्टकादिभिरात्मविराधना, कण्टकजन्यक्षतचिकित्सादिकरणे च संयमविराधना, "जैनसाधवः मिथ्याभिमानिनो मूर्खशिरोमणयश्च ये एवं कण्टकाकीर्णेऽपि मार्गे उपानत्परिधानमकृत्वैव विहरन्ति, पश्चाच्च दुःखिनो भवन्ति" इति जनवादाच्छासनविराधना च । किञ्च स्वाध्यायपरिहानि:, तथा सिद्धान्त रहस्य बिन्दुः ७०७०७०७०७७७०७०७०७७७७७७७०७०७०७ ७०७७७७ १९०

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206