Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 190
________________ ७७७०७ ? ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ல മഹാനായ മഹാ " (१५० ) यैः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन्, पञ्चभिः सप्तभिर्वा पटलैरेकीकृतैः सविता नोपलभ्यते इति, किमुक्तं भवति ? रवेः सम्बन्धिनो रश्मयोः नोपलभ्यन्ते, तादृशानि पटलानि भवन्ति, किंविशिष्टानि कदलीगर्भोपमानि क्षौमाणि श्लक्ष्णानि मसृणानि घनानि चेति । तत्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह - ग्रीष्मे उष्णकाले त्रीणि पटलानि गृह्यन्ते, यानि तानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, शिशिरे च चत्वारि गृह्यन्ते घनानि मसृणानि च शोभनानि यदि भवन्ति, स हि मनाक् स्निग्धः कालः, पञ्च पटलानि वर्षासु गृह्यन्ते, यद्युत्कृष्टानि घनानि मसृणानि च भवन्ति, स हि अत्यन्तस्निग्धकालो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत उर्ध्वं मध्यमानि न शोभनानि नाप्यशोभनानि वक्ष्ये इति । ग्रीष्मे उष्मकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते तानि मनाग् जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि वर्षासु षड् । एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधानानि, तत्र ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षट् पुनः हेमन्ते जघन्यानि जीर्णप्रायाणि, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि । एवमुक्तेन प्रकारेण त्रिविधेऽपि कालपर्यन्ते अन्यानि चान्यानि च पात्रावरणानि स्थगनानि पटलानि भवन्ति । (ओ.नि. ६९-७०१ ) pootosbodoosbooooooooooooooooooooooooooooooooo I ७०७०७२ सिद्धान्त रहस्य बिन्दुः → > चन्द्र. स्पष्टं सर्वम् । नवरं पटलानां जघन्यादिभेदेन त्रिविधत्वात् तत्स्वरुपानुसारेण तत्तत्काले तत्तत्संख्यानि पटलानि ग्राह्याणीति न विस्मरणीयम् । तानि च प्रत्येकं सार्धद्वयहस्तदीर्घाणि साधैकहस्तविस्तीर्णानि च भवन्ति । एतदपि अत्रैव ग्रन्थे प्रतिपादितमस्ति । छट १७७०७०७५ १८७

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206