Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ஸ்
ஸ்ஸ்ஸ்ஸ்ஸ்
एते द्वादशालापकाः ‘आघाड' पदेन लब्धाः । एवमेव द्वादशालापका अनागाढपदेन लभ्यन्ते इति चतुर्विंशतय आलापका सञ्जाताः । एकैक आलापक एकैकस्य स्थण्डिलस्थानस्य निरूपकः इति भवन्ति चतुर्विंशतिपरिमाणानि स्थण्डिलस्थानानीति ।
अधुना भावार्थ उच्यते ।
तत्र प्राचीनकाले सामान्यत इयमुपाश्रयव्यवस्था आसीत्, यदुत उपाश्रयभूतं गृहं मध्ये, प्रायः सर्वासु दिक्षु त्रिद्व्यादिषु वा दिक्षु केवला भूमिः, ततः तदावरणभूतं कुड्यम्, कुड्यस्य बहिस्तात्पुनः केवला भूमिरिति । एवमुपाश्रयव्यवस्था सम्यक् मनसि धारणीया ।
अधुना ‘आघाड’पदस्य व्याख्यानं क्रियते । ' आघाड' इति 'कुड्यस्यान्तर्वर्तिन्यां भूमौ' इत्यर्थः ।
अयं भावः अत्रोपाश्रये सकलगच्छेन मासादिकालं यावत्स्थातव्यम्, ततश्च प्रश्रवणादिकं यदि उपाश्रयासन्नभूमौ एव व्युज्सृज्येत, तर्हि दुर्गन्धादिभिरस्वाध्यायादि-दोषाः स्युः, ततश्च रात्रावपि बहिर्वर्तिन्यां भूमौ एव व्युत्सृजनीयम् । परन्तु यदि रात्रौ बहिर्भूमौ स्तेनसर्पश्वादिभयम्, लुण्टाकादिभयंवा, ततो बहिर्गन्तुं न पार्यते । तदेवमन्तर्भूमौ एव प्रश्रवणादिव्युत्सृजनप्रयोजककारणसद्भावः 'आघाड' इति पदेनोच्यते । ततश्च यत्र यत्रालापके आगाढपदम्, तत्र तत्र अन्तर्भूमिव्युत्सृजनमवसेयमिति ।
अन्तर्भूमिरपि त्रिभागा कल्पनीया, तत्र समीपवर्तिभागः 'आसन्न' पदेनोच्यते, मध्यमवर्तिभागः मध्यपदेनोच्यते । दुरवर्तिभागश्च दूरपदेनोच्यते ।
उच्चारो नाम मल:, वडीनीतिः, विष्टेति यावत् । स च यदा भवति, तदा प्रश्रवण एव भवतीति न केवलस्योच्चारस्य सम्भव इति यत्र यत्रालापके उच्चारपदम्, तत्र तत्र प्रश्रवणपदमपि गृहीतमत्र । प्रश्रवणं नाम मूत्रम् ।
यदा तु उच्चारो न भवति, तदा केवलम् प्रश्रवणं सम्भवत्येवेति उच्चारपदरहिताः प्रश्रवणपदसहिताः आलापकाः सम्भवन्ति ।
तथाऽन्तर्भूमावपि यदि शक्यम्, तर्हि दूरभागे एव गन्तव्यम् । स च दूरभाग: द्विभागरुपतया कल्पनीयः, आसन्नभागः दूरभागश्च । तत्र यदि उच्चारादिशङ्का तादृशी स्यात्, यया बाधितः साधुः दूरभागस्य दूरभागे गन्तुं शक्नुयात्, तर्हि 'अहियासे' पदमुच्यते । उच्चारादिशङ्का सोढुं शक्यत इति अस्यार्थः । परन्तु उच्चारादिशङ्का तादृशी स्यात्, यया बाधितः साधुः दूरभागस्य दूरभागे गन्तुं न शक्नुयात्, परन्तु दूरभागस्यासन्नभाग एव, ततश्च तत्र ‘अणहियासे’ पदमुच्यते । उच्चारादिशङ्का सोढुं अशक्येति भावः ।
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
१८०
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206