Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु तथाऽपि आत्महिंसाकरणे तु परलोकेऽविरतिप्राप्तिधूवैव, तदकरणेन मैथुनसेवने तु यद्यपि तदानीं रागभावेन चारित्रपरिणामभङ्गेऽपि पश्चात्पश्चात्तापादिना पुनः स संयोजयिष्यत इति चिरकालं चारित्रपालनं, तज्जन्या निर्जरा, तथाविधपरिणतिसम्भवे तु मोक्षोऽपि भवेदिति स एव पन्थाः प्रगुणः, न आत्मघातादिरूप इति चेत् ।
न, तथास्वाभाव्यान्मैथुनसंज्ञाया बलवत्तरत्वेन सकृदपि तत्सेवने पश्चात्प्रायश्चित्तकरणेऽपि पुनः पुनः तदभिलाष उज्जृम्भते, ततश्च पुनः पुनः तत्सेवनसम्भावनाऽपि दुवरिति भवति सर्वथा चारित्रपरिणामघातः, कदाचिच्छासनापभ्राजनायां तु सत्यां बोधिदुर्लभतादिकमपि न दुःशकमिति महाहानिसम्भवदर्शनादेव चिरं चारित्रपरिणामरक्षणाभिप्रायेणाऽपि मैथुनसेवनं नानुज्ञातमिति ।
ननु मैथुनसंज्ञा बलवत्तरा, न त्वाहारादिसंज्ञेति अत्र को नियामकः, प्रत्युत कवलाहारस्य द्वीन्द्रियादारभ्य प्रवर्तमानत्वात् मैथुनस्य च स्पष्टतया पञ्चेन्द्रियेष्वेव प्रवर्तमानत्वात् आहारसंज्ञैव अधिककालव्यापित्वाद् बलवत्तरेति सम्भाव्यत इति चेत्,
न, शोभनोऽप्याहारो रागं विनाऽपि भोक्तुं शक्यते, मैथुनन्तु कुरुपया हस्तपादकर्णनासिकादिरहितयाऽपि स्त्रिया क्रियमाणं रागं विना नैव भवतीति अनेनैव मैथुनसंज्ञाया बलवत्तरत्वमनुमीयते ।।
progyapregnapre eggagedagoggagraapaagopgapgedagogpeppeoppoprogripgapgogging (११८) 'जस्स य जोगं' इत्येवं अकृत्वा = अभणित्वा निर्गतः सन् एवं
न लभते = न भवत्याभाव्यं सचित्तं = प्रव्रज्यार्थमुपस्थितं गृहस्थम्, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः
स्तैन्यं भवति, तस्मात्कुरु यस्य योग इत्येवम् । (ओ.नि. ४२९) thority of doi koi dodibod kodihooddodkoskodi koi toideos ko sdkodide of deodhodi ko devideoday
चन्द्र. एष विधिरधुना प्रातः 'उपयोग करूं' इत्याद्यादेशैः क्रियते, तत्काले तु मध्याह्ने भिक्षाटनार्थं गमनकाल एव क्रियमाणः स विधिरासीत् । तदानीं ते गृहीतोपकरणाः प्रावृत्तकल्पा एव एनं विधि अकुर्वन् । अत एवाधुना प्रातः तद्विधिकरणकाले स्कन्धे एकः कल्पः क्रियते, तच्च प्राचीनक्रिया-सापेक्षताप्रतिपादकमिति ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १५०
सिद्धान्त रहस्य बिन्दुः

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206