Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 173
________________ ७७७०७७७७७७७७७७७०७२७०७०७७०७०७०७०७०७०७०७०७०७ चन्द्र. इदमुपलक्षणम्, पानकमध्याद् बिन्दुमात्रमपि भक्तमध्याच्च कणमात्रमपि यथा भुवौ न निपतेत्, तथा भृशं यतन्ते ते साधवः, अत एव योगोद्वहनेऽधुनाऽप्येतादृशो विधिर्दृश्यते । कणमात्रपतने को दोष इति चेत् तत्किं वारत्रकमन्त्रीदृष्टान्तो न श्रुत: ?, यत्र साधुं प्रतिलाभयित्र्या बिन्दुमात्रपतने जाते सति क्रमशः युद्धमपि सञ्जातम् । यद्यपि तद्गृहे भिक्षाग्रहणवेलायां बिन्दुपतनेनाभूत्, तथाऽपि उपाश्रयेऽपि बिन्दुपतनात् जीवविराधनादयो दोषाः अनुमीयन्ते एव । न केवलमनुमीयन्तेऽपि तु पिपीलिकाद्यागमनं तद्विराधनादयश्च दोषाः प्रत्यक्षं दृश्यन्तेऽपि । " किञ्च यदि पतितकणाद्यपनयनं न क्रियते, तदाऽनन्तरोक्तरीत्या हिंसादयो दोषाः, यदि च क्रियते तदा तत्र पानकोपयोगावश्यकत्वात् पानकहानिः स्वाध्यायपलिमन्थश्च । तथाऽनवस्थया कणपतनरक्षणप्रयत्नोपेक्षारूपया क्रमशः बहवो दोषा सम्भवन्तीति अधुनाऽपि एतदनुभूयते कुत्रचिदिति भोजनकाले बिन्दुकणमात्रपतनमपि महता यत्नेन संरक्षणीयं संयममग्नेन संयमिनेति । ट ഹഹഹഹഹാഹഹാഹഹാഹഹാ (१३६) निद्धमहुराणि पुव्वं पित्ताईपसमणट्ठया भुंजे । बुद्धिबलवड्ढणट्ठा दुक्खं खु विकिंचिउं निद्धं किमर्थं स्निग्धमधुराणि पूर्वं भक्ष्यन्ते ? यतो बुद्धेर्बलस्य च वर्द्धनं भवति, तथा चाह - घृतेन वर्धते मेध इत्यादि, बलवर्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्यादि शक्यते कर्तुम्, दुःखं परिस्थापयितुं स्निग्धं धृतादि भवति, यतोऽसंयमो भवतीति । (ओ.नि. भा. २८४ ) 00000000000000 so चन्द्र. स्पष्टम् । नवरं स्निग्धं घृतादि, मधुरं शर्करादि । पयःपाकादि तूभयस्वरूपम् । तच्च यदि प्रथमं भुज्यते तर्हि बलादिवर्धनं भवति, न पश्चाद्भोजने । तथा यदि तत्प्रथमं भुज्यते, तदा यदि कदाचित् भोजनमतिरिक्तं स्यात्, तदापि तत् अन्तप्रान्तं स्यात्, तच्च परिस्थापयितुं ७०७०७७०७०७०७०७० १७० ७०७०७०७०७०७०७०७०७०७०७०७०७ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206