Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 175
________________ 996ܗܦܗ99.99ܗܡܗܦܗܡܗ ( १३८ ) नास्ति क्षुत्सदृशा वेदनाऽतो भुञ्जीत तत्प्रशमनार्थं, बुभुक्षितो वैयावृत्यं कर्तुं न शक्नोति अतो भुङ्क्ते, इर्यापथिकां बुभुक्षितो न शोधयति यतोऽतो भुङ्क्ते । 'थामो वा' प्राणः, तस्य परिहानिर्भवति यदि न भुङ्क्ते, अतस्तदर्थं भुञ्जीत । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा - चिन्तनं ग्रन्थार्थयोः, एतदसौ कर्तुमसमर्थः सन् भुङ्क्ते । (ओ.नि.भा. २९०-२९१ ) ०००००००००००००००००००००००००००००० ஸ்ஸ்ஸ்ஸ் चन्द्र. स्पष्टम् । नवरमत्र 'किमर्थं भोजनं कर्त्तव्यं साधुना' इति भोजनकरणाय प्रयोजकानि षट्कारणानि प्रतिपादितानि । भोजनस्य कारणिकत्वात् अपवादत्वमूहनीयम् । तथा अत्र ग्रन्थार्थयोश्चिन्तनमनुप्रेक्षा निगदिता, तथा च न केवलं अर्थस्यैवानुप्रेक्षाऽपि तु सूत्रस्याऽप्यनुप्रेक्षा भवतीति ज्ञेयम् । ७०७७७० ஸ்ஸ் तर्हि पुनरावर्तनानुप्रेक्षयोः को भेदः, अस्माकन्तु इदं मतं यदुत पठितसूत्रस्य पुनरनुस्मरणं पुनरावर्तनम् पठितार्थस्य च तत् अनुप्रेक्षेति चेत् न, सूत्रस्यार्थस्य वा उच्चारणपूर्वकं पुनःस्मरणं पुनरावर्तनम्, तदेव केवलमनसा क्रियमाणमनुप्रेक्षा । न चैतत्स्वमनीषिकामात्रम्, दशकालिकवृत्तौ तथैवोक्तत्वात् । तथा च तत्पाठः परिअट्टणा नाम परिअट्टणंति वा अब्भस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअड णो वाया । इति । १७२ ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ் ७०७७०७७०७ सिद्धान्त रहस्य बिन्दुः

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206