________________
996ܗܦܗ99.99ܗܡܗܦܗܡܗ
( १३८ ) नास्ति क्षुत्सदृशा वेदनाऽतो भुञ्जीत तत्प्रशमनार्थं, बुभुक्षितो वैयावृत्यं कर्तुं न शक्नोति अतो भुङ्क्ते, इर्यापथिकां बुभुक्षितो न शोधयति यतोऽतो भुङ्क्ते । 'थामो वा' प्राणः, तस्य परिहानिर्भवति यदि न भुङ्क्ते, अतस्तदर्थं भुञ्जीत । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा - चिन्तनं ग्रन्थार्थयोः, एतदसौ कर्तुमसमर्थः सन् भुङ्क्ते । (ओ.नि.भा. २९०-२९१ )
००००००००००००००००००००००००००००००
ஸ்ஸ்ஸ்ஸ்
चन्द्र. स्पष्टम् । नवरमत्र 'किमर्थं भोजनं कर्त्तव्यं साधुना' इति भोजनकरणाय प्रयोजकानि षट्कारणानि प्रतिपादितानि । भोजनस्य कारणिकत्वात् अपवादत्वमूहनीयम् । तथा अत्र ग्रन्थार्थयोश्चिन्तनमनुप्रेक्षा निगदिता, तथा च न केवलं अर्थस्यैवानुप्रेक्षाऽपि तु सूत्रस्याऽप्यनुप्रेक्षा भवतीति ज्ञेयम् ।
७०७७७०
ஸ்ஸ்
तर्हि पुनरावर्तनानुप्रेक्षयोः को भेदः, अस्माकन्तु इदं मतं यदुत पठितसूत्रस्य पुनरनुस्मरणं पुनरावर्तनम् पठितार्थस्य च तत् अनुप्रेक्षेति चेत्
न, सूत्रस्यार्थस्य वा उच्चारणपूर्वकं पुनःस्मरणं पुनरावर्तनम्, तदेव केवलमनसा क्रियमाणमनुप्रेक्षा । न चैतत्स्वमनीषिकामात्रम्, दशकालिकवृत्तौ तथैवोक्तत्वात् । तथा च तत्पाठः परिअट्टणा नाम परिअट्टणंति वा अब्भस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअड णो वाया । इति ।
१७२
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
७०७७०७७०७
सिद्धान्त रहस्य बिन्दुः