________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ം തുറന്നുപറയാംറയും മഹാമായ (१३९) आतङ्को - ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यम्, तदर्थं न भुङ्क्ते । राज्ञा राजकुलधारणादिरूपो यधुपसर्गः कृतः, स्वजनो यदि उन्निष्क्रमणार्थमुपसर्गं करोति, ततो न भुङ्क्ते । ब्रह्मव्रतपालनार्थं न भुक्ते, यतो बुभुक्षितस्योन्मादो न भवति । तथा प्राणदयार्थं न भुक्ते, यदि वर्षति, महिका वा निपतति । तपोऽर्थं न भुक्ते, तच्च चतुर्थादि यावत्षण्मासाः तावत्तपो
भवति, तदर्थं न भुक्ते । षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुर्भवति । एभिः पूर्वोक्तैः षड्भिः स्थानैरनाहारो यो भवति, स धर्मं नातिक्रामति भिक्षुरतो
ध्यानयोगरतेन भवितव्यमिति । (ओ.नि.५८३) dojkiyo krysterysekysi bosity of chotkoolaporan tod insanskoshobinsostostostostos
चन्द्र. 'आहारत्यागः किमर्थं कर्त्तव्य' इत्येतत्प्रतिपादकं प्रकृतवचनं स्पष्टमेव ।
ननु एवं आहारवत् आहारत्यागस्यापि कारणिकत्वादापवादिकत्वमेव प्राप्तम् । तथा च आहारोऽपि अपवादः, तत्त्यागश्चाप्यपवाद इति विचित्रमेतत् । द्वयोर्विपरीताचारयोरुत्सर्गापवादनियतत्वात् इति चेत्
न, आहारो न कर्त्तव्य इत्युत्सर्गः, कारणषट्कमध्यादन्यतरकारणसत्त्वे आहारः कर्त्तव्य इत्यपवादः, अपवादकारणसत्त्वेऽपि आहारत्यागप्रयोजककारणान्तरपुष्टत्वे सति आहारत्यागः कर्त्तव्य इति अपवादप्रतिबन्धकोऽयमुत्सर्ग एव । तथा हि एकत्र बुभुक्षारूपं आहारकारणमुपस्थितम्, तत्रैव च पर्जन्यमहिकादिरूपं आहारत्यागकारणमुपस्थितम्, तत्र आर्तध्यानाद्यधिकदोषाभावे सति अपवादं परित्यज्याहारत्यागात्मक उत्सर्ग एव आदरणीयः, आर्तध्यानाद्यधिकदोषभावे तु यतनयाऽपवाद इति । एवमन्यकारणेष्वपि बोध्यम् । ___न चैतदागमाननुपाति, आगमे उत्सर्गसूत्रापवादसूत्रोत्सर्गोत्सर्गसूत्रापवादापवादसूत्रोत्सर्गापवादसूत्रापवादोत्सर्गसूत्राणि प्रतिपादितानि, तत्रेदमपवादोत्सर्गार्थकं भविष्यतीति न काञ्चिद् बाधां पश्यामो वयमिति । किञ्च न 'यत् कारणिकं तदपवादः' इति व्याप्तिः, किन्तु सामान्यविधिरुत्सर्गः, विशेषविधिस्त्वपवाद इत्यत्र बहु वक्तव्यम्, तत्तु नोच्यते विस्तरभयात् ।
ஒஷைலலைலைலைலைலைலைலைலைலைலை सिद्धान्त रहस्य बिन्दुः
१७३