SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ഹം പറയാനറിയാനായി. (१४०) यदा तु पुनरुद्वरितं भक्तं भवति, तदा को विधिरित्यत आह - भवेत् = स्यात् कदाचिदुद्वरितम्, तत्र साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति, आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शिते भक्ते गुरुणा च सन्दिष्टः उक्तः यदुत आह्वयाचाम्लादीन् साधून् येन तेभ्यो दीयते, पुनश्चासौ रत्नाधिकः सन्दिष्टः सन् चतुर्थादीन्साधून्व्याहरति । स च व्याहरन्नेतान्न व्याहरति, मोहचिकित्सार्थं य उपवासिकः स्थितस्तं न व्याहरति, तथा विकृष्टतपसं साधुं न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्यं करोति अतस्तस्य न दीयते, ग्लानश्च ____ ज्वरादिना तं च न व्याहरति, आत्मलब्धिकं च न व्याहरति । एतानन्तरोदितान् साधून् मुक्त्वा शेषान् गत्वा भणति यदुत आचार्या व्याहरन्ति युष्मान्, तेषां च मध्ये यश्चतुर्थादिक आकारितः, स आकर्ण्य किं करोति ? इत्याह - अनतिलङ्घयन् गुरोराज्ञामागत्य वन्दित्वा भणति तमाचार्य यदुत संदिशत यूयं, आचार्योऽपि भणति - भुञ्जीत, सोऽपि भणति - 'जं सरति तत्तिअं भुञ्जामि' शेषं यदुद्वरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठापयतीति । अथासौ साधुरेवं न भणति यदुत ‘जं सरइ तत्तिअं' ततस्तस्य एवमभणतस्तस्यैव यच्छेषं भक्तमुद्वरीतं तद्भवति । स एव विवेचकः परिष्ठापक इत्यर्थः। (ओ.नि. ५८८-५९१) இருந்திரத்தில் இருந்திரம் இரும் pேo epo ரே ரேதாப் மேல் மேல் கால் போக்கும் மேல் படும் பரம் திருவிக்ரம் போல் மேல் चन्द्र. सर्वं स्पष्टमेव प्रायः, नवरं अनेनैतन्निश्चीयते यदुत उद्वरितभोजनमध्ये विकृतिप्रभृतिकमपि भवेत्, तदपि च आचाम्ले पारिष्ठापनिकाकारेण भोक्तुं कल्पते, तथा 'उद्वरितं भक्तं कस्य दातव्यं' इत्यत्राचार्याणामेवाधिकारः, न शेषाणामिति, तथाऽष्टमादितपसि லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १७४
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy