________________
०७०७०७०७७७४
उद्वरितभोजनं न भोक्तुं कल्पत इति ।
ननु कुत्रचिद्गच्छे उद्वरितविकृतिकं आचाम्ले न दीयते, तत्किं युक्तं न वा ? इति चेत् यद्यपि शास्त्ररीत्या आचाम्लेऽपि उद्वरितविकृतिकं दातुं कल्पते, तथाऽपि कुत्रचिद्गच्छे भवदुक्ता सामाचारी अस्ति चेत् तत्किं सा संविग्नगीतार्थप्रवर्तिताऽन्यथा वा यदि प्रथमा, तर्हि तद्गच्छीयैः पालनीयैव सा, संविग्नगीतार्थप्रवर्तितगच्छीयसामाचारीभङ्गे तद्गच्छीयानां महापातकसम्भवात्, यदि चासंविग्नगीतार्थप्रवर्तिता तर्हि उपेक्षणीया सा, तस्याः सामाचार्याभासरूपत्वात् ।
ஸ்ஸ்ஸ்ஸ்ஸ்
छठ
മനമായ
മ
(१४१ ) सा पुनः परिष्ठापनिका जाता जाता भवति । तत्र जाता ग्रहणकाल एव प्राणातिपातदोषेण युक्ता अथवा आधाकर्मादिदोषेण जाता उत्पन्ना । अजाता पुनः आधाकर्मादिदोषेण न दूषिता या साऽजातेत्युच्यते तत्र जातास्वरूपप्रतिपादनायाह मूलगुणैः- प्राणातिपातादिभिरशुद्धा, तथोत्तरगुणैश्च आधाकर्मादिभिरशुद्धा, तथा लोभातिरेकेण - लोभाभिप्रायेण साधुना गृहीता, साऽप्यशुद्धा लोभदोषदूषिता सती जातेत्युच्यते । तथाऽभियोगकृता, अभियोगो द्विविधः - वशीकरणचूर्णो मन्त्रश्च तत्र सा भिक्षा कदाचित्संयोजिता भवति मन्त्राभिमन्त्रिता वा साऽप्यशुद्धा अतो जाता सा पारिष्ठापनिकेत्युच्यते । विषेण व्यामिश्रं भक्तं केनचिद् द्विष्टेन दत्तं भवति, तस्य या पारिष्ठापनिका सा जातापारिष्ठापनिकेति । (ओ.नि. ५९५ )
"
ood cocoss Pooooooooooooooooooooooooooooooooooooooooooooooo
१५०७०१००७७७०७
सिद्धान्त रहस्य बिन्दुः
चन्द्र. अयं भावः, साधुना प्राणातिपातादिकं मूलगुणदोषं सेवित्वा गृहीता भिक्षा, आधाकर्मादिदोषान्विता भिक्षा, लोभपारवश्यागृहीता भिक्षा, वशीकरणचूर्णमिश्रिता भिक्षा मन्त्राभिमन्त्रिता भिक्षा, विषव्यामिश्रिता च भिक्षा जातापारिष्ठापनिका उच्यते । एषा च न साधुभिर्भक्षणीया यथासम्भवं संयमात्मप्रवचनविराधनासम्भवात्, किन्तु
०७०७०७२७७७७७०७
१७५