________________
७०
वक्ष्यमाणविधिना परिष्ठापनीया ।
तत्र प्राणातिपातादिदोषदुष्टा भिक्षा लोकागमनरहितेऽचित्ते गुरूपदिष्टे स्थण्डिले परिष्ठापनीया, तत्रापि समे भूभागे, न तु गर्तादौ यतो हि समे भूभागे परिष्ठापितां तां प्राघुर्णकादयः साधवः सुखेन पश्यन्ति, कारणे च तथाविधे सति ग्रहीतुं शक्नुवन्ति । तत्र च सा भिक्षा एकपुंजरूपतया परिष्ठाप्यते, येन प्राघुर्णकादयो जानन्ति यदुत "कैश्चित्साधुभिः परिष्ठापितेयं भिक्षा प्राणातिपातादिदोषदुष्टा, एकपुंजतया परिष्ठापितत्वाद्" इति । ततश्च ते तथाविधकारणे सति " एतादृशी भिक्षा ग्राह्या न वा" इति निर्णयन्ति । परिष्ठापनकाले च 'व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टं' इति तिस्रो वाराः वदति । तच्च श्रावणं त्रिवाराः एतज्ज्ञापनार्थं करोति यदुत "मया मनसा वचसा कायेन चैतद्व्युत्सृष्टं" इति ।
लोभाधाकर्मादिदोषदुषिता भिक्षा पुञ्जद्वयरूपतया परिष्ठापनीया, येन प्रार्घुणकादयो जानन्ति यथा "लोभेनाधाकर्मादिना वा दुषितेयं भिक्षा" इति । शेषं पूर्ववत् ।
वशीकरणचूर्णमिश्रिता मन्त्राभिमन्त्रिता विषादिव्यामिश्रिता च भिक्षा अत्यर्थं क्षुत्पीडायामपि सत्यां नियमेन परिष्ठापनीया, सा चात्मवत्प्राघूर्णकादीनामपि अनुपयोगिन्येवेति सा न एकद्वयादि - पुञ्जरूपेण क्रियतेऽपि नु छारेण मिश्रीकृत्य परिष्ठाप्यते, येन कोऽप्येनां न भोक्तुं शक्नोतीति ।
या तु सकलदोषरहिता उद्वरिता भिक्षा साऽजाता पारिष्ठापनिकोच्यते । सा च साध्वालोके पुञ्जत्रयरूपेण परिष्ठाप्यते, यतोऽध्वाने निर्गता अन्ये साधवः कारणे समापति तां ग्रहीतुं शक्नुवन्ति, कदाचिद्वा परिष्ठापयितार एव साधवः कारणे उत्पन्ने गृह्णन्ति । त्रिपुञ्चकरणं तु “इयं भिक्षा सकलदोषवर्जिता, त्रिपुञ्जतया परिष्ठापितत्वात्" इति साधूनां ज्ञापनार्थम् ।
संविग्ना हि अकारणे न कदापि एनां परिष्ठापितां भिक्षां गृह्णन्ति, कारणे सति अजातां भिक्षां गृह्णन्ति, तदभावे द्विपुञ्जतया परिष्ठापितां आधाकर्मादिदोषदूषितां भिक्षां गृह्णन्ति, तदभावे एकपुञ्जतया परिष्ठापितां प्राणातिपातादिदोषदूषितां भिक्षां गृह्णन्ति । न तु छारेणावगुण्ड्य परिष्ठापितां वशीकरणचूर्णमन्त्रविषान्यतरदुष्टामिति ।
०७०७०७०७०
७७७०७०
एषा च प्राचीना सामाचारी, अधुना तु सर्वाऽपि उद्वरिता भिक्षा क्षारादिभिः अवगुण्ड्यैव परिष्ठापनीया, न तु एकपुञ्जादिरूपतया । एतच्च श्रीयतिजीतकल्पे प्रतिपादितमिति तदनुसारेणास्माभिरप्युक्तमिति बोध्यम् ।
१७६
ஸ்ஸ்ஸ்ஸ்ஸ்
छठ
७०७०७०७०७०७०
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
सिद्धान्त रहस्य बिन्दुः