Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ഹം പറയാനറിയാനായി. (१४०) यदा तु पुनरुद्वरितं भक्तं भवति, तदा को विधिरित्यत आह -
भवेत् = स्यात् कदाचिदुद्वरितम्, तत्र साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति, आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शिते भक्ते गुरुणा च सन्दिष्टः उक्तः यदुत आह्वयाचाम्लादीन् साधून् येन तेभ्यो दीयते, पुनश्चासौ रत्नाधिकः सन्दिष्टः सन् चतुर्थादीन्साधून्व्याहरति । स च व्याहरन्नेतान्न व्याहरति, मोहचिकित्सार्थं य उपवासिकः स्थितस्तं न व्याहरति, तथा विकृष्टतपसं साधुं न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्यं करोति अतस्तस्य न दीयते, ग्लानश्च ____ ज्वरादिना तं च न व्याहरति, आत्मलब्धिकं च न व्याहरति ।
एतानन्तरोदितान् साधून् मुक्त्वा शेषान् गत्वा भणति यदुत आचार्या व्याहरन्ति युष्मान्, तेषां च मध्ये यश्चतुर्थादिक आकारितः, स आकर्ण्य किं करोति ? इत्याह - अनतिलङ्घयन् गुरोराज्ञामागत्य वन्दित्वा भणति तमाचार्य यदुत संदिशत यूयं, आचार्योऽपि भणति - भुञ्जीत, सोऽपि भणति - 'जं सरति तत्तिअं भुञ्जामि' शेषं यदुद्वरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठापयतीति । अथासौ साधुरेवं न भणति यदुत ‘जं सरइ तत्तिअं' ततस्तस्य एवमभणतस्तस्यैव यच्छेषं भक्तमुद्वरीतं तद्भवति । स एव
विवेचकः परिष्ठापक इत्यर्थः। (ओ.नि. ५८८-५९१) இருந்திரத்தில் இருந்திரம் இரும் pேo epo ரே ரேதாப் மேல் மேல் கால் போக்கும் மேல் படும் பரம் திருவிக்ரம் போல் மேல்
चन्द्र. सर्वं स्पष्टमेव प्रायः, नवरं अनेनैतन्निश्चीयते यदुत उद्वरितभोजनमध्ये विकृतिप्रभृतिकमपि भवेत्, तदपि च आचाम्ले पारिष्ठापनिकाकारेण भोक्तुं कल्पते, तथा 'उद्वरितं भक्तं कस्य दातव्यं' इत्यत्राचार्याणामेवाधिकारः, न शेषाणामिति, तथाऽष्टमादितपसि லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१७४

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206