Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல ढक्कयित्वा गृह्णीयात्, तत्र यद्यसौ तां स्त्रियमिच्छति, ततः संयमभ्रंशः, अथ नेच्छति तत उड्डाहः, सैव स्त्री लोकस्य कथयति यदुतायं मामभिभवतीति । ___तथा एकाकी कदाचिदनेषणीयमपि गृह्णीयात्, ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोष इति ।
तदेवमैतावद्दोषभयात्साधुना ससङ्घाटकेनैव भिक्षाटनादि कर्त्तव्यम् । एतदेव सर्वं यथायोगं श्रमणीष्वपि वाच्यम् ।
ननु यद्यैकाकिन एतावन्तो दोषाः, किमर्थं तर्हि जिनकल्पिकादीनामेकाकित्वमनुज्ञातमिति चेत् ?
अतिशयज्ञानिनां तेषां दोषाभावात्, न चैकस्य यन्निषिद्धं, तत्सर्वस्यापि निषिद्धमेव भवति, अधिकारिभेदेन अनुष्ठान भेदस्य युक्तत्वात् । तदुक्तं अष्टकप्रकरणे 'अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या' इत्यादि । यदि हि नैवं मन्येत, तर्हि साधूनां जिनपूजासुपात्रदानादिकं निषिद्धमिति कृत्वा गृहस्थानामपि तन्निषिद्धं स्यात् ।
न केवलं जिनकल्पिकादीनामेवापि तु पुष्टालम्बने सति अनतिशयिनामपि श्रमणानां एकाकित्वमनुमतमेव, तत्र यथासम्भवं दोषपरिहारयतनाकरणेऽपि यद्यपि केचिद् दोषा भवेयुः, तथाऽपि पुष्टालम्बनसमन्वितशास्त्रीययतनासत्त्वेन नाध्यात्मिकदोषाः स्युः, बाह्यदोषास्तु अकिञ्चित्करा इति ।
sapgopgopsipelipelapeoprogginpedesigrogedeogopologgoecogndagopsiegoogle (११६) तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथासौ
सर्वेण गृहीतेन भिक्षामटितुमसमर्थस्ततः आचारभण्डकेन समम्, आचारभण्डकं-पात्रकं पटलानि रजोहरणं दण्डकः कल्पद्वयं-और्णिक
क्षौमिकश्च मात्रकं च, एतद् गृहीत्वायाति । (ओ.नि.भा.२२७) ຂໍwwwຮູ້ຂໍwຂໍwewewຂໍຜີຍແຜິຮູ້ຂໍຄໍຂອ໔໕໕ ຂໍຂໍຂໍຍໍຄໍຂໍຍໍຄໍຂ້ອງ
चन्द्र. सर्वं स्पष्टम्, नवरमधुना व्यवहारे स आचारो न दृश्यते, तत्कारणानामधुनाऽत्यल्पत्वादिति । कानि पुनस्तानि कारणानीति चेत् परचक्रभयादीनि इति லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१४८

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206